________________
पञ्चमः प्रकाशः
२०५
यात्रोत्सवान्ते सङ्घन रथयात्रा प्रचक्रमे । यात्रोत्सवो हि भवति संपूर्णो रथयात्रया ॥ रथोऽथ स्थशालाया दिवाकररथोपमः । निर्ययौ स्वर्णमाणिक्यद्युतिद्योतितदिङ्मुखः ॥ श्रीमदर्हत्प्रतिमाया रथस्थाया महद्धिभिः । विधिज्ञैः स्नात्रपूजादि श्रावकैरुपचक्रमे ॥ क्रियमाणेऽर्हतः स्नात्रे स्नात्राम्भो न्यपतद्रथात् । जन्मकल्याणके पूर्वं सुमेरुशिखरादिव ॥ श्राद्धैः सुगन्धिभिर्द्रव्यैः प्रतिमाया विलेपनम् । स्वामिविज्ञिप्सुभिरिवाकारि वक्त्राहितांशुकैः ॥ मालतीशतपत्रादिदाममिः प्रतिमाऽर्हतः । पूजिताऽभात् कलेवेन्दोभृता शारदवारिदैः ॥ दह्यमानागरूत्थाभिधूमलेखाभिरावृता । अशुभत् प्रतिमा नीलवासोभिरिव पूजिता ॥ आरात्रिकं जिनार्चायाः कृतं श्राद्धैलच्छिखम् । दीप्यमानौषधिचक्रशैलशृङ्गविडम्बकम् ॥ वन्दित्वा श्रीमदर्हन्तमथ तैः परमार्हतैः। . रथ्यैरिवाग्रतो भूयः स्वयमाचकृषे स्थः ॥ . नागरीभिरुपक्रान्तसहलीसकरासकः । . चतुर्विधातोद्यवाद्यसुन्दरप्रेक्षणीयकः ॥ परितः श्राविकालोकगीयमानोरुमङ्गलः । प्रतीच्छन् विविधां पूजां प्रत्यहं प्रतिमन्दिरम् ॥ बहुलैः कङ्माम्भोभिरभिषिक्ताग्रभूतलः । संप्रतेः सदनद्वारमाससाद शनै रथः ॥ त्रिभिर्विशेषकम् ।। राजाऽपि संप्रतिरथ रथपूजार्थमुद्यतः । आगात् पनसफलवत्सर्वाङ्गोद्भिन्नकण्टकः ॥ रथाधिरूढां प्रतिमां पूजयाऽष्टप्रकारया । अपूजयन्नवानन्दसरोहंसोऽवनीपतिः ॥