________________
श्राद्धविधिकौमुदीसङ्क्षेपः
"
निरतिशयं गरिमाणं तेन युवत्या वदन्ति विद्वांसः । तं कमपि वहति गर्भं, जगतामपि यो गुरुर्भवति ॥ काश्चन स्वशीलप्रभावादनलं जलमिव, जलं स्थलमिव, व्यालान् शृगालानिव, विषधरं रज्जुमिव, विषममृतमिव कुर्वन्ति । चतुर्वर्णे च सङ्घ चतुर्थभङ्गं श्राविका एव । शास्त्रे च तासां निन्दाभूयस्त्वं तदासक्तिपराणां तन्निवृत्तिपरमेव । सुलसाप्रभृतयो हि श्राविकास्तीर्थकरैरपि प्रशस्यगुणाः, सुरेन्द्रैरपिस्वर्गभूमिषु श्लाघितधर्मदायः, प्रबलमिथ्यात्वैरप्यक्षोभ्यसम्यक्त्वसंपदः, काश्चिच्चरमदेहाः, काश्चिद् द्वित्रादिभवान्तरितमोक्षगमनाः शास्त्रेषु श्रूयन्ते । तदासां जननीनामिव भगिनीनामिव, स्वपुत्रीणामिव ं वात्सल्यं युक्तियुक्तमेवेत्यलं प्रसङ्गेन ।
2
साधर्मिकवात्सल्येनैव च राज्ञामतिथिसंविभागव्रताराधनं, राज - पिण्डस्य मुनीनामकल्प्यत्वात् । इति साधर्मिकवात्सल्यविधिः । (३) तथा प्रतिवर्षं जघन्यतोऽप्येकैका यात्रा कार्या । यात्रा च त्रिधा । यदुक्तम्
२०४
अष्टाह्निकाभिधामेकां, रथयात्रामथापराम् । तृतीयां तीर्थयात्रां चेत्याहुर्यात्रां त्रिधा बुधाः ॥
तत्राष्टाह्निकास्वरूपं प्रागुक्तम् । तासु सविस्तरं सर्वचैत्यंपरिपाटीकरणाद्यष्टाह्निका यात्रा । इयं चैत्ययात्राऽप्युच्यते । रथयात्रा तु हैमपरिशिष्टपर्वण्येवमुक्ता च -
सुहस्त्याचार्यपादानामवन्त्यामेव तस्थुषाम् । चैत्ययात्रोत्सवश्चक्रे सङ्खेनान्यत्र वत्सरे ॥
मण्डपं चैत्ययात्रायां सुहस्ती भगवानपि । एत्य नित्यमलञ्चक्रे श्रीसङ्गेन समन्वितः ॥ सुहस्तिस्वामिनः शिष्यपरमाणुरिवाग्रतः । कृताञ्जलिस्तत्र नित्यं निषसाद च संप्रति ॥