________________
पञ्चमः प्रकाशः
२०३ तथा तेषां वाचना-प्रच्छना-परिवर्तनाऽनुप्रेक्षा-धर्मकथादिषु यथायोगं विनियोजनम् । विशिष्टधर्मानुष्ठानकरणार्थं साधारण-पौषधशालादेः कारणमित्यादि । श्राविकास्वपि वात्सल्यं श्रावकवदन्यूनातिरिक्तमुन्नेतव्यम् । ता अपि ज्ञानदर्शनचारित्रवत्यः शीलसन्तोषप्रधानाः सधवा विधवा वा जिनशासनानुरक्तमनसः सार्मिकत्वेन मान्याः । ननु स्त्रियो लोके लोकोत्तरे च दोषभाजनत्वेनैव प्रसिद्धाः एताः खल्वभूमिका विषकन्दल्यः, अनभ्रसम्भवा वज्राशनयः, अनौषधा व्याधयः, अकारणो मृत्युः, अनिमित्त उत्पातः, अफणाः सपिण्यः, अकन्दरा व्याघ्रयः, प्रत्यक्षराक्षस्यः, गुरुबन्धुस्नेहविघातहेतवः, असत्यमायादिबहुलाः । यदुक्तं-
. . अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशौचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥ अणंतपावरासीओ, जया उदयमागया। तया इत्थीत्तणं पत्तं, सम्मं जाणाहि गोअमा ! ॥ सर्वशास्त्रेष्वपि प्रायः पदे पदे तासां निन्दा दृश्यते, अतस्ता दूरतः परिहार्याः, तत्कथं तासु दानसन्मानवात्सल्यविधानं युक्तम् ? उच्यते,नायमेकान्तो यत् स्त्रिय एव दोषबहुलाः, पुरुषेष्वपि समानमेतत्, तेऽपि ●राशया दोषबहुला नास्तिकाः कृतघ्नाः स्वामिद्रोहिणो विश्वस्तघातिनोऽसत्यवादिनोऽन्यधनस्त्रीप्रसक्ता निर्दया देवगुरुवञ्चकाश्च भूयांसोऽपि दृश्यन्ते । न च तद्दर्शनेन महापुरुषाणामवज्ञा कर्तुं युज्यते । एवं स्त्रीणामपि । यद्यपि कासाञ्चिद् दोषबहुलत्वमुपलभ्यते, तथापि कासाञ्चिद् गुणबहुलत्वमप्यस्ति । तीर्थकरजनन्यो हि स्त्रीत्वेऽपि तद्गुणगरिमयोगितया सुरेन्द्रैरपि पूज्यन्ते मुनीन्द्रैरपि स्तूयन्ते । लौकिका अप्याहु: