________________
२०२
श्राद्धविधिकौमुदीसक्षेपः श्रूयते भूयस्तरवित्तव्ययादि च । ढिल्ल्यां साधुजगसी-सुतसाधुमहणसिंहेन श्रीतपागच्छाधिपपूज्यश्रीदेवसुन्दरसूरिभक्तेनैकस्यामेव सङ्घार्चायां सर्वदर्शनसङ्घपरिधापनादिना चतुरशीति-सहस्रटङ्ककव्ययः कृतः । द्वितीयस्मिन्नेव दिने प्राप्तानां प्राक् तदाकारितश्रीगुरुप्रहितपण्डितदेवमङ्गलगणीनां प्रवेशे सङ्क्षिप्तसङ्घार्चायां पुनः षट्पञ्चाशट्टङ्ककसहस्री व्ययितेत्यादि श्रूयते । इति सङ्घार्चाविधिः ।
(२) साधर्मिकाणां वात्सल्यमपि सर्वेषां कियतां वा यथाशक्ति कार्यम् । समानधर्माणो हि प्रायेण दुष्प्रापाः । यदवादिष्म- ...
सर्वैः सर्वे मिथः सर्वसम्बन्धाः लब्धपूर्विणः ।
साधर्मिकादिसम्बन्धलब्धारस्तु मिताः क्वचित् ॥ तेषां च सङ्गमो हि महते पुण्याय किं पुनस्तदनुरूपा प्रतिपत्तिः ? यतः
एगत्थ सव्वधम्मा, साहम्मियवच्छलं तु एगत्थ ।
बुद्धितुलाए तुलिया, दो वि अ तुल्लाई भणिआई ॥ तत्प्रतिपत्तिश्चैवं-स्वपुत्रादिजन्मोत्सवे विवाहेऽन्यस्मिन्नपि प्रकरणे सार्मिकाणां निमन्त्रणं विशिष्टभोजनताम्बूलवस्त्राभरणादिदानमापन्निमग्नानाञ्च स्वधनव्ययेनाऽप्यभ्युद्धरणं । अन्तरायदोषाच्च विभवक्षये पुनः पूर्वभूमिकाप्रापणम् । किं हि तस्य प्रौढिम्ना यः समान- : साधर्मिकान् समृद्धान् न कुरुते ? । उक्तमपि
न कयं दीणुद्धरणं, न कयं साहम्मिआण वच्छल्लं । हिअयम्मि वीअराओ, न धारिओ हारिओ जम्मो ॥ धर्मे च विषीदतां तेषां तेन तेन प्रकारेण धर्मे स्थैर्यारोपणम् । प्रमाद्यतां च स्मारणवारणनोदनप्रतिनोदनादिकरणम् । यतः
पम्हढे सारणा वुत्ता, अणायारस्स वारणा। चुक्काणं चोअणा भुज्जो, निर्ल्डर पडिचोअणा ॥