________________
पञ्चमः प्रकाशः
२०१
वत्थं पत्तं च पुत्थं च, कंबलं पायपुंछणं । . दंडं संधारयं सिज्जं, अन्नं जं किंचि सुज्झई ॥
'पुत्थंति' पुस्तकं पञ्चविधमप्यापवादिकम् । 'अन्नंति' अन्यदप्यौघिकौपग्रहिकभेदभिन्नं मुखवस्त्रिकादण्डप्रोञ्छनकादिकं यच्छुद्
ध्यति संयमोपकारे वर्त्तते । तदुक्तं. 'जं वट्टइ उवयारे, उवगरणं तंसि होइ उवगरणं । - अरेगं अहिगरणं, अजओ अजयं परिहरंतो ॥ ____ परिहरतो.' इति आसेवमानः 'परिहारो परिभोगो' इति वचनात् । ततोऽग्रतश्च यत्परिभुञ्जानो भवतीत्यर्थ इति प्रवचनसारोद्धारवृत्तौ । एवं च प्रातिहारिकपीठफलकपट्टिकाद्यपि संयमोपकारि सर्वं साधुभ्यः श्रद्धया देयम् । सूच्यादीनामुपकरणत्वं श्रीकल्पेऽप्युक्तं यथा
असणाई वत्थाई सूआइ चक्कगा तिन्नि ।
अशनादीनि वस्त्रादीनि सूच्यादीनि चेति त्रीणि चतुष्कानि द्वादश । यथा अशनं पानं स्वादिमं स्वादिमं वस्त्रं पात्रं कंबलं पादप्रोञ्छनं सूची पिप्पलको नखच्छेदनकं कर्णशोधनकं चेति । एवं श्राद्धश्राविकासङ्घमपि यथाशक्ति सभक्ति परिधापनादिना सत्करोति, यथोचितं च देवगुर्वादिगुणगायकान् याचकादीनपि ।
सङ्घार्चा च त्रिधा, उत्कृष्टा मध्यमा जघन्या च । सर्वदर्शनसर्वसङ्घपरिधापने उत्कृष्टा । सूत्रमात्रादिना जघन्या । शेषा मध्यमा। तत्राधिकं व्ययितुमशक्तोऽपि गुरुभ्यः सूत्रमुखवस्त्रिकादिकं द्वित्रिश्राद्ध श्राद्धीभ्यः पूगादि च दत्वा प्रतिवर्षं सङ्घार्चाकृत्यं भक्त्या सत्यापयति । नि:स्वस्य च तावदपि महाफलम् । यत:. संपत्तौ नियमः शक्तौ सहनं यौवने व्रतम् ।
दारिद्रये दानमप्यल्पं, महालाभाय जायते ॥१॥ मन्त्रिवस्तुपालादीनां तु प्रतिचातुर्मासकं सर्वगच्छसङ्घार्चाविधानादि