________________
२०६
श्राद्धविधिकौमुदीसक्षेपः महापद्मचक्रिणापि मातुमनोरथपूर्तये रथयात्राऽत्याडंबरैश्चक्रे । कुमारपालरथयात्रा त्वेवमुक्ता
चित्तस्स अट्ठमिदिणे चउत्थमिदिणे चउत्थपहरे महाविभूईए। .. सहरिसमिलंतनायरजणकयमंगलजयसद्दो ॥ सोवनजिणवररहो, नीहरड़ चलंतसुरगिरिसमाणो। . कणगोरुदंडधयछत्तचमरराईहिं दिप्पंतो ॥ एहविअविलित्तं कुसुमोहपूइअं तत्थ पासजिणपडिमं । कुमरविहारदुवारे, महायणो ठवइ रिद्धीए ॥ . तूररववरिअभुवणो, सरभसनच्चंतचारुतरुणिगणो । सामंतमंतिसहिओ, वच्चइ नवमंदिरम्म रहो ॥ राया रहत्थपडिमं, पट्ट्सअकणयभूसणाईहिं। सयमेव अच्चिउं कारवेइ विविहाई.नट्टाइं ॥ . . तत्थ गमिऊण रयणि, नीहरिउं सीहबारबाहिमि । ' ठाइ एवं चिअ धयतंडवम्मि पडमंडवम्मि रहो ॥ तत्थ पहाए राया, रहजिणपडिमाइ विडं पूअं । चउविहसंघसमक्खं, सयमेवारत्तिअं कुणइ ॥ . . तत्तो नयरंमि रहो, परिसक्कइ कुंजरेहिं जुत्तेहिं।
ठाणे ठाणे पडमंडवेसु विउलेसु चिटुंतो ॥ इत्यादि। . अथ तीर्थयात्रास्वरूपम् । तत्र तीर्थानि श्रीशत्रुञ्जयश्रीरैवतादीनि । तथा तीर्थकृज्जन्मदीक्षाज्ञाननिर्वाणविहारभूमयोऽपि प्रभूतभव्यसत्वशुभभावसंपादकत्वेन भवाम्भोनिधितारणात् तीर्थान्युच्यन्ते । तेषु सद्दर्शनविशुद्धिप्रभावनाद्यर्थं विधिवद्यात्रागमनं तीर्थयात्रा । तत्रायं विधिः
प्रथमं प्रतिपद्यते यात्रावधि(कैकाऽऽ)काऽऽहारसचित्तपरिहारभूशयनब्रह्मव्रतादिगाढाभिग्रहान् । पर्यङ्किकावर्याऽश्व-पल्यङ्कादिसमग्रसामग्रीसद्भावेऽपि यात्रिकस्य प्रौढश्रावकस्यापि शक्तौ पदचरणाद्यौचित्यम् । यदवोचाम