________________
तृतीयः प्रकाशः
१८७ नाद्यारम्भः सर्वोऽपि यथाशक्ति परिहार्यः । निजकुटुम्बनिर्वाहस्याऽन्यथा कर्तुमशक्तौ पर्वस्वपि गृहिणः कियानारम्भः स्यात् । सचित्ताहारपरिहारस्तु स्वायत्तत्वादिना सुकरतया करणीय एव । गाढमान्द्यादिना सर्वसचित्तानि त्यक्तुमशक्तस्तु नामग्राहमेकादिसचित्तमुत्कलीकरणपूर्वं शेषनिःशेषसचित्तानि नियमयेत् । तथा आश्विनाष्टाह्निकाचैत्राष्टाह्निकाप्रमुखेषु पर्वसु विशेषेण पूर्वोक्तविधिविधेयः । प्रमुखशब्देन चतुर्मासकवार्षिकाद्यष्टाह्निका-चतुर्मासकत्रय-सांवत्सरपर्वादिसङ्ग्रहः । उक्तञ्च
संवच्छरचाउम्मासिएसु, अट्ठाहिआसु अ तिहीसु ।
सव्वायरेण लग्गइ, जिणवरपूआतवगुणेसु ॥ अत्र गुणा ब्रह्मव्रतादयः अष्टाह्निकासु चैत्राश्विनाष्टाह्निके शाश्वत्यौ, तयोर्वैमानिकदेवा अपि नन्दीश्वरादिषु तीर्थयात्राद्युत्सवान् कुर्वन्ति । यदाहुः-.
. दो सासयजत्ताओ, तत्थेगा होइ चित्तमासम्मि । अट्ठाहिआइमहिमा, बीआ पुण अस्सिणे मासे ॥ एआउ दोवि सासय जत्ताउ करंति सव्वदेवा वि। . • नंदीसरम्मि खयरा, नरा य नियएसु ठाणेसु ॥ .: . तह चउमासिअतिअगं, पज्जोसवणा य तह य इअ छक्कं । - जिणजम्मदिक्खकेवलनिव्वाणाइसु असासइआ ॥
.जीवाभिगमे त्वेवमुक्तं-तत्थ णं बहवे भवणवइवाणमंतरजोइसवेमाणिया देवा तिहिं चउमासिएहिं पज्जोसवणाए अ अट्ठाहिआओ महामहिमाओ करितित्ति । तिथिश्च प्रातः प्रत्याख्यानवेलायां य: स्यात् स प्रमाणम् । सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात् । आहुरपि
चाउम्मासिअवरिसे, पक्खिअ पंचट्ठमीसु नायव्वा । ताओ तिहिओ जासिं, उदेइ सूरो न अण्णाओ ॥