________________
१८६
श्राद्धविधिकौमुदीसक्षेपः _ यथा विजयादशमीदीपोत्सवाक्षयतृतीयाद्यैहिकपर्वसु भोजननेपथ्यादौ विशिष्य यत्यते, तथा धर्मपर्वसु धर्मेऽपि । बाह्यलोका अप्येकादश्यमावास्यादिपर्वसु कियदारम्भवर्जनोपवासादिकं सङ्क्रान्तिग्रहणादिपर्वसु सर्वशक्त्या महादानादिकं च कुर्वन्ति । ततः श्राद्धेन पर्वदिनाः सर्वे विशिष्य पालनीयाः । पर्वाणि चैवमूचुः - ...
अट्ठमि चाउद्दसि पुण्णिमा य, तहऽमावसा हवइ पव्वं । मासम्मि पव्वछक्कं, तिन्नि अ पव्वाइं पक्खम्मि ॥
तथा ।
बीआपंचमिअट्ठमिएगारसिचउदसी पण तिहीओ। एआओ सुअतिहीओ, गोअमगणहारिणा भणिआ ॥ बीआ दुविहे धम्मे, पंचमि नाणेसु अट्ठमी कम्मे ।
एगारसि अंगाणं, चउद्दसी चउदपुव्वाणं ॥ ' एवं पञ्चपर्वी पूर्णिमावास्याभ्यां सह षट्पर्वी च प्रतिपक्षमुत्कृष्टतः स्यात् । वर्षमध्ये त्वष्टाह्निकाचतुर्मासकादीन्यनेकानि पर्वाणि । आरम्भवर्जनं सर्वथा कर्तुमशक्तेनापि स्वल्पस्वल्पतरारम्भेण पर्वसु भाव्यम् । सचित्ताहारश्च जीवहिंसात्मकतया महानेवारम्भः, ततोऽनारम्भेति पदेन पर्वसु सर्वसचित्ताहारपरिहारोऽपि कार्यतया ज्ञेयः ।
आहारनिमित्तेणं, मच्छा गच्छंति सत्तमि पुढविं।
सच्चित्तो आहारो, न खमो मणसो वि पत्थेउं ॥ इति वचनान्नित्यं सचित्ताहार: श्राद्धेन परिहार्यो मुख्यवृत्त्या । जातु तथा कर्तुमशक्तोऽपि पर्वसु तं परिहरेत् । एवं पर्वसु स्नान-शीर्षादिशोधन-ग्रथन-वस्त्रादिधावन-रञ्जन-शकटहलादिखेटन-मूढकादिबन्धनयन्त्रादिवाहन-दलन-कण्डन-पेषण-पत्रपुष्पफलादित्रोटन-सचित्तखटीवर्णिकादिमर्दन-धान्यादिलवन-लिम्पन-मृदादिखनन-गृहादिनिष्पाद