________________
तृतीयः प्रकाशः
पर्वकृत्यम्
उक्तं रात्रिकृत्यमथ पर्वकृत्यमाह
पव्वेसु. पोसहाई, बंभअणारंभतवविसेसाई । आसो अचित्तअट्ठाहिअपमुहेसु विसेसेणं ॥ ११ ॥
पर्वसु अष्टमीचतुर्दश्यादिष्वागमोक्तेषु 'पोषं पुष्टिं प्रस्तावाद्धर्मस्य धत्ते इति पोषधः' तद्व्रतादि श्राद्धेनावश्यं कार्यमिति शेषः । यदागमःसव्वेसु कालपव्वेसु, प्रसत्थो जिणमए हवइ जोगो अट्ठमिचउद्दसीसु अ, नियमेण हविज्ज पोसहिओ ॥
• आदिशब्दाद्वपुरपाटवादिपुष्टालम्बनैः पोषंधस्य कर्त्तुमशक्यत्वे
द्विष्प्रतिक्रमणबहुबहुसामायिककरणबहुसङ्क्षेपरूपदेशावकाशिकव्रतस्वीकरणादि कार्यम् । तथा पर्वसु ब्रह्मचर्यमनारम्भ आरम्भवर्जनं तपोविशेषः प्राक् क्रियमाणतपसोऽधिकं यथाशक्त्युपवासादि तपः । आदिशब्दात् स्नात्रचैत्यपरिपाटीकरणसर्वसाधुनमस्करणसुपात्रदानादिना प्राक्क्रियमाणदेवगुरुपूजादानादिभ्यो विशिष्य धर्मानुष्ठानं तत्तत्कार्यम् ।
यतः
जड़ सव्वेसु दिणेसु, पालह किरिअं तओ हवइ लठ्ठे ।
जइ पुण तहा न सक्कह, तहवि हु पालिज्ज पव्वदिणं ॥