________________
१८८
श्राद्धविधिकौमुदीसक्षेपः पूआ पच्चक्खाणं, पडिक्कमणं तहय निअमगहणं च । जीए उदेइ सूरो, तीइ तिहीए उ कायव्वं ॥ उदयम्मि जा तिही, सा पमाणमिअरीइ कीरमाणीए ।
आणाभंगणवत्थामिच्छत्तविराहणं पावे ॥ पाराशरस्मृत्यादावपि
आदित्योदयवेलायां, या स्तोकाऽपि तिथिर्भवेत् । .
सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ उमास्वातिवचःप्रघोषश्चैवं श्रूयते
क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा ।
श्रीवीरज्ञाननिर्वाणं, कार्यं लोकानुगैरिह ॥ . .. अर्हतां जन्मादिपञ्चकल्याणकदिना अपि पर्वतिथित्वेन विज्ञेयाः, द्वित्र्यादिकल्याणकदिनाश्च विशिष्य । श्रूयते हिं कृष्णमहाराजेन सर्वपर्वदिनान्याराधयितुमशक्तेन वर्षमध्ये स्वामिन्नुत्कृष्टं पर्वदिनमाराध्यं किन्नाम ? इति श्रीनेमिः पृष्टः प्राह- 'महाभाग ! मार्गशीर्षशुक्लैकादशी जिनेन्द्रपञ्चकल्याणकीपवित्रिता, अस्यां पञ्चपञ्चभरतैरावतक्षेत्रकल्याणकानां मीलने पञ्चाशत् कल्याणकानि स्युः ।' ततः कृष्णेन मौनपौषधोपवासादिना तद्दिनमाराद्धम् । ततः प्रभृति यथा राजा तथा प्रजा इत्येकादशी सर्वजनेष्वाराध्यतया प्रसिद्धि प्राप । पर्वतिथिपालनं च महाफलं शुभायुर्बन्धहेतुत्वादिना । यदागमः
भयवं ! बीअपमुहासु पंचसु तिहीसु विहिअं धम्माणुट्ठाणं किं फलं होइ ? गोयमा ! बहुफलं होइ । जम्हा एआसु तिहीसु पाएणं जीवो परभवाउअं समज्जिणइ, तम्हा तवोविहाणाइधम्माणुट्ठाणं कायव्वं । जम्हा सुहाउअं समज्जिणइत्ति।
आयुषि बद्धे तु दृढधर्माराधनेऽपि बद्धायुर्न टलति ! यथा श्रेणिकनृपस्य क्षायिकसम्यक्त्वसम्भवेऽपि प्राक् सगर्भमृगीघाते पृथंग् गर्भपाते