________________
१८२
श्राद्धविधिकौमुदीसङ्क्षेपः
नवपरिणीतमहेभ्यकन्याष्टकप्रतिबोधपितृनवनवतिकाञ्चनकोटिपरि
,
हर्तृ श्रीजम्बूस्वामिनः सार्द्धद्वादशकाञ्चनकोटी, कोशावेश्यासक्त्या विलसितवतः सपद्यात्तश्रामण्यस्य कोशाहर्म्ये चतुर्मासीस्थितस्य श्रीस्थूलभद्रस्य, अभयाराज्ञीविहितविविधानुकूल-प्रतिकूलोपसर्गैरपि स्वल्पमप्यक्षुब्धमनसस्सुदर्शन श्रेष्ठ्यादेश्च दृष्टान्ताः स्पष्टा एवेति न वितन्यन्ते । कषायादिदोषजयोपायस्तत्तद्दोषप्रतिपक्षसेवादिना स्यात् । तत्र क्रोधः क्षमया, मानो मार्दवेन, माया आर्जवेन, लोभः सन्तोषेण, रागो वैराग्येण . द्वेषो मैत्र्या, मोहो विवेकेन, कामः स्त्रीशरीराशौचभावनया, मत्सरः परसम्पदुत्कर्षेऽपि चित्ताऽबाधया, विषयाः संयमेन, अशुभमनोवाक्काययोगा गुप्तित्रयेण, प्रमादोऽप्रमादेन, अविरतिर्विरत्या च सुखेन जीयन्ते !. न चेदं तक्षकशीर्षमणिग्रहणपीयूषपानाद्युपदेशवदशक्यानुष्ठानमित्याशङ्क्यम्, मुन्यादीनां तत्तद्दोषपरिहारेण गुणैकमयत्वभवनदर्शनात् । दृढप्रहारिचिलातीपुत्ररौहिणेयादीनां ज्ञातान्यपि प्रतीतान्येवात्र । उक्तमपि -
गता ये पूज्यत्वं प्रकृतिपुरुषा एव खलु ते, जना ! दोषत्यागे जनयत समुत्साहमतुलम् । न साधूनां क्षेत्रं न च भवति नैसर्गिकमिदं, गुणान् यो यो धत्ते स स भवति साधुर्भजत तान् ॥ हंहो ! स्निग्धसखे ! विवेक ! बहुभिः प्राप्तोऽसि पुण्यैर्मया, गन्तव्यं कतिचिद्दिनानि भवता नास्मत्सकाशात् क्वचित् । त्वत्सङ्गेन करोमि जन्ममरणोच्छेदं गृहीतत्वरः, को जानाति पुनस्त्वया सह मम स्याद्वा न वा सङ्गमः ? ॥ गुणेषु यत्नसाध्येषु यत्ने चात्मनि संस्थिते ।
अन्योऽपि गुणिनां धुर्य इति जीवन् सहेत कः ? ॥ गौरवाय गुणा एव न तु ज्ञातेयडम्बरः । वानेयं गृह्यते पुष्पमङ्गजस्त्यज्यते मलः ॥ गुणैरेव महत्त्वं स्यान्नाङ्गेन वयसापि वा । दलेषु केतकीनां हि लघीयस्सु सुगन्धिता ॥