________________
द्वितीयः प्रकाशः
यथाऽग्निसन्निधानेन, लाक्षाद्रव्यं विलीयते । धीरोऽपि कृशकायोऽपि, तथा स्त्रीसन्निधौ नरः ॥
यद्वासनायुक्तश्च शेते तद्वासनायुक्त एव लभ्यते यावन्न प्रतिबुध्यते इत्याप्तोपदेशः । अतः सर्वथोपशान्तमोहेन धर्मवैराग्यादिभावनाभावितेनैव च निद्रा कार्या, यथा कुस्वप्नदुःस्वप्नोपलम्भादिपरिहारेण धर्ममयस्वप्नोपलम्भाद्येव स्यात् । एवं निस्सङ्गताद्यात्मकत्वे सुप्तस्य परायत्त - त्वादापदां बहुत्वादायुषः सोपक्रमात् कर्मगतेर्विचित्रत्वाच्च जात्वायुःसमाप्तिः स्यात्तदापि सुगतिभागेव भवेत्, अन्ते या मतिः सा गतिः इति वचनात् । कपटसंयतहतपौषधिकोदायिनृपवत् ।
अथोत्तरार्द्धव्याख्या- ततः परिणतायां रात्रौ निद्राया उपरमे व्यपगमे सत्यनादिभवाभ्यासरसोल्लसद्दुर्जयकामरागजयार्थं स्त्रीतनोरशुचित्वादि विचिन्तयेत् । आदिशब्दाज्जम्बूस्वामिस्थूलभद्रादिमहर्षिसुदर्शनादिसुश्राद्धादीनां दुष्पालशीलपालनैकाग्रतां कषायादिदोषजयोपायं भवस्थितेत्यन्तदुःस्थतां धर्म्यमनोरथांश्च विचिन्तयेत् । तत्र स्त्रीशरीरस्याऽपावित्र्यजुगुप्सनीयत्वादि सर्वं प्रतीतम् । तदुक्तं पूज्यश्रीमुनिसुन्दरसूरिपादैरअध्यात्मकल्पद्रुमे
तदाह
१८१
चर्मास्थिमज्जान्त्रवसास्त्रमांसामेध्याद्यशुच्यस्थिरपुद्गलानाम् । स्त्रीदेहपिण्डाकृतिसंस्थितेषु, स्कन्धेषु किं पश्यसि ? रम्यमात्मन् ! ॥ विलोक्य दूरस्थममेध्यमल्पं, जुगुप्ससे मोटितनासिकस्त्वम् । भृतेषु तैरेव विमूढ ! योषावपुष्युतत्किं कुरुषेऽभिलाषम् ? ॥ अमेध्यभस्त्रा बहुरन्ध्रनिर्यन्- मलाविलोद्यत्कृमिजालकीर्णा । चापल्यमायानृतवञ्चिका स्त्री संस्कारमोहान्नरकाय भुक्ता ॥ सङ्कल्पयोनिश्च त्रैलोक्यविडम्बकोऽपि सङ्कल्पत्यागे सुजय एव ।
काम ! जानामि ते रूपं, सङ्कल्पात् किल जायसे । न त्वां सङ्कल्पयिष्यामि, न च मे त्वं भविष्यसि ॥