________________
१८०
श्राद्धविधिकौमुदीसक्षेपः गिहमझं मुत्तूणं, दिसिगमणं मुत्तुमसगजूआई।
वयकाएहिं न करे, न कारवे गंठिसहिएणं ॥ पाणिवहत्ति मुक्त्वा मशकयूकादीनिति वाक्यं द्वितीयगाथोक्तं प्राणातिपातमित्यत्र सम्बध्यते । ततश्च प्राणातिपातमनियतमेकेन्द्रिय- . मशकयूकादीन् मुक्त्वा आरम्भज-सापराधत्रसविषयं च । एवं मृषावादादत्तादानमैथुनान्यपि । तथा दिनलाभं प्रातर्विद्यमानः परिग्रहो दिनलाभश्च न नियमितः, इदानीं तु तमपि नियच्छामीत्यर्थः । अनर्थदण्डं तथाङ्गीकृतं. शयनाच्छादनादि मुक्त्वा सर्वमुपभोगपरिभोगं गृहमध्यं मुक्त्वा दिशिगमनं च मनसो निरोद्धुमशक्यत्वाद् वाक्कायाभ्यां न करोमि न कारयामि चं ग्रन्थिसहितेन यावन्तं कालं ग्रन्थि न मोचयामीत्यर्थः । एवं देशावकाशिकस्वीकरणं महाफलं, महर्षिवद् भृशं निःसङ्गतादिहेतुत्वात् । तच्च वैद्यजीववानरेण यथा प्राणान्तेऽपि नियूढं निस्तुलं च तत्फलमागामिभवे प्राप्तं । तथाऽन्येनापि विशेषफलार्थिना मुख्यवृत्त्या निर्वाह्यम् । तथा निर्वोढुमशक्तौ त्वनाभोगाद्याकारचतुष्के चतुर्थाकारेण प्रदीपनादिसङ्कटे तन्मोचनेऽपि न भङ्गः । वैद्यजीववानरवृत्तान्तस्त्वस्मत्कृतादाचारप्रदीपग्रन्थादवधार्यः । तथा चतुःशरणप्रतिपत्तिः । सर्वजीवराशिक्षमणाऽष्टादशपापस्थानकव्युत्सर्जनं, दुष्कृतगर्हणं, सुकृतानुमोदनम् ।
जइ मे हुज्ज पमाओ, इमस्स देहस्स इमाइ रयणीए ।
आहारमुवहिदेहं, सव्वं तिविहेण वोसिरिअं ॥ नमस्कारोच्चारपूर्वमनया गाथया त्रिः साकारानशनस्वीकरणं पञ्चनमस्कारस्मरणं च स्वापावसरे कार्यम् । विविक्तायामेव च शय्यायां शयितव्यं न तु स्त्रयादिसंसक्तायाम् । तथा सति सतताभ्यस्त्वाद् विषयप्रसङ्गस्योत्कटत्वाच्च वेदोदयस्य पुनरपि तद्वासनया बाध्येत जन्तुः । यथोक्तं