________________
द्वितीयः प्रकाशः
१७९ शयनासनयोः काष्ठमाचतुर्योगतः शुभम् । पञ्चादिकाष्ठयोगे तु नाशः स्वस्य कुलस्य च ॥ पूज्योर्ध्वस्थो न ना झिर्न चोत्तरापराशिराः । नानुवंशं न पादान्तं नागदन्तः स्वपेत् पुमान् ॥ देवताधाम्नि वल्मीके भूरुहाणां तलेऽपि च । तथा प्रेतवने चैव सुप्यान्नापि विदिक्शिराः ॥ निरोधभङ्गमाधाय परिज्ञाय तदास्पदम् । विमृश्य जलमासन्नं कृत्वा द्वारनियन्त्रणम् ॥ इष्टदेवनमस्कारनष्टापमृतिभीः शुचिः । रक्षामन्त्रपवित्रायां शय्यायां पृथुताजुषि ॥ सुसंवृतपरीधानः सर्वाहारविवर्जितः । वामपार्श्वे तु कुर्वीत निद्रां भद्राभिलाषुकः ॥ विशेषकम् । क्रोधभीशोकमद्यस्त्रीभारयानाध्वकर्मभिः । परीक्लान्तैरतीसारश्वासहिक्कादिरोगिभिः ॥ वृद्धबालाबलक्षीणैस्तृट्शूलक्षतविह्वलैः । अजीणिप्रमुखैः कार्यो दिवा स्वापोऽपि कर्हिचित् ॥ युग्मम् । वातोपचयरौक्ष्याभ्यां रजन्याश्चाल्पभावतः । .. दिवास्वापः सुखी ग्रीष्मे सोऽन्यदा श्लेष्मपित्तकृत् ॥ अत्यासक्त्याऽनवसरे निद्रा नैव प्रशस्यते । एषा सौख्यायुषी कालरात्रिवत् प्रणिहन्ति यत् ॥ . प्राक्शिरःशयने विद्या धनलाभश्च दक्षिणे । _पश्चिमे प्रबला चिन्ता मृत्युर्हानिस्तथोत्तरे ॥
आगमोक्तविधिस्त्वेवम् । चैत्यवन्दनादिना देवगुरुनमस्कारकरणम् । चतुर्विधाहारादिप्रत्याख्यानोच्चारणम् । ग्रन्थिसहितेन सर्वव्रतसङ्केपरूपदेशावकाशिकव्रतस्वीकरणं च । यदुक्तं दिनकृत्ये
पाणिवहमुसादत्तं, मेहुणदिणलाभणत्थदंडं च । अंगीकयं च मुत्तुं सव्वं उवभोगपरिभोगं ॥