________________
१७८
श्राद्धविधिकौमुदीसक्षेपः दोषः । यथोक्तम्
न भवति धर्मः श्रोतुः सर्वस्यैकान्ततो हितश्रवणात् । ब्रुवतोऽनुग्रहबुद्ध्या वक्तुस्त्वेकान्ततो भवति ॥ इति नवमगाथार्थः ।। पायं अबभविरओ, समए अप्पं करेड़ तो निदं । निद्दोवरमे थीतणुअसुइत्ताई विचिंतिज्जा ॥१०॥
ततो धर्मदेशनानन्तरं समये रात्रिप्रथमयामाद्यतिक्रमार्द्धरात्रादिरूपे शरीरसात्म्याधुचितशय्यास्थानं गत्वा विधिना निद्रामल्पां करोति । कीदृशः सन् ? प्रायो बाहुल्येन अब्रह्म मैथुनं तस्माद् विरतः, गृहस्थेन यावज्जीवं ब्रह्मव्रतं पालयितुमशक्तेनापि पर्वतिथ्यादिबहुदिनेषु ब्रह्मचारिणैव भाव्यम् नवयौवनवयःस्थेनापि, ब्रह्मचर्यस्य महाफलत्वात् । महाभारतेऽप्युक्तम्.. एकरात्र्युषितस्यापि या गतिर्ब्रह्मचारिणः।
न सा क्रतुसहस्त्रेण वक्तुं शक्या युधिष्ठर. ! ॥ . अत्र निद्रामिति विशेष्यम् । अल्पामिति चं विशेषणम् । सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामत इति न्यायादल्पत्वमत्र विधेयं न तु निद्रा, तस्या दर्शनावरणीयकर्मोदयेन स्वत:सिद्धत्वाद्, अप्राप्ते हि शास्त्रमर्थवदित्युक्तं प्राग् । बहुनिद्रो हि भवद्वयकृत्येभ्योऽपि परिभ्रश्येत् । तस्करवैरिधूर्तदुर्जनादिभ्यश्च सुलभपरिभवः स्यात् । अल्पनिद्रत्वं च महानुभावलक्षणम् । चदार्षम्
थोवाहारो थोवभणिओ अ जो होइ थोवनिद्दो अ।
थोवोवहिउवगरणो, तस्स हु देवावि पणमंति ॥ निद्राविधिश्चायं नीतिशास्त्राद्यनुसारेण
खट्वां जीवाकुलां हुस्वां भग्नां कष्टां मलीमसाम् । .. प्रतिपादान्वितां वह्निदारुजातां च सन्त्यजेत् ॥ .