________________
१७७
द्वितीयः प्रकाशः स्यात्तथा चागमः-भंगिअसुअं गुणतो, वट्टइ तिविहे वि झाणम्मीति । एवं स्वाध्यायकरणे स्वपरयोः कर्मक्षयप्रतिबोधादयोऽनेके गुणा धर्मदासश्राद्धस्येव । अत्र स्वाध्याये धर्मदासदृष्टान्तः ___ अतः स्वाध्यायः कार्यः । ततः सामायिकं पारयित्वा गृहं गतो धर्मं सम्यक्त्वमूलदेशविरत्यादिरूपं, सर्वकृत्येषु सर्वशक्त्या यतनाकरणादिरूपं, सर्वथाऽर्हच्चैत्यसाधर्मिकवर्जितवासस्थानकुसंसर्गवर्जनादिरूपं, नमस्कारगुणनत्रिकालचैत्यवन्दना-पूजा-प्रत्याख्यानाद्यभिग्रहरूपं, यथाशक्तिसप्तक्षेत्री-वित्तव्ययादिरूपं वा यथायोग्यं कथयति उपदिशति । कलत्र-पुत्र-मित्र-भ्रातृ-भृत्य-भगिनी-स्नुषा-पुत्री-पौत्रपौत्री-पितृव्य-भ्रातृव्य-वणिक्-पुत्रादिस्वजनानां पुरस्तादिति शेषः । यद्दिनकृत्यम्
सव्वन्नुणा पणीअंतु, जइ धम्मं नावगाहए। इहलोए परलोए-अ, तेसिं दोसेण लिप्पई ॥ जेण लोगट्ठिई एसा, जो चोरभत्तदायगो । लिप्पइ सो तस्स दोसेण, एवं धम्मे विआणह ॥ तम्हा हु नायतत्तेणं, सडेणं तु दिणे दिणे। .
दव्वओ भावओ चेव, कायव्वमणुसासणं ॥ ... द्रव्यतः पुत्रकलत्रदुहित्रादीनां यथायोग्यं वस्त्रादि ददाति । पोष्यपोषक इति वचनात् । भावतस्तु तेषामेव धर्मदेशनां करोति । अनुशासनं सुस्थितदुःस्थितत्वादिचिन्तनमित्यर्थः । अन्यत्राप्युक्तम्
राज्ञि राष्ट्रकृतं पापं, राज्ञः पापं पुरोहिते ।
भर्तरि स्त्रीकृतं पापं शिष्यपापं गुरावपि ॥ कलत्रपुत्रादयो हि गृहकृत्यवैयग्र्यप्रमादबहुलत्वादिना गुरुपाद्वे धर्ममशृण्वन्तोऽप्येवं धर्मे प्रायः प्रवर्तन्ते । एवं गृहाधिपेन प्रियापुत्रादयः प्रतिबोध्या: । जात्वेवमपि यदि ते न प्रतिबुध्यन्ते, तदा गृहाधिपस्य न
युक्तम्