________________
१७६
श्राद्धविधिकौमुदीसक्षेपः करणे जोए सन्ना, इंदिअ भूमाइ समणधम्मो अ।
सीलंसहस्साणं, अट्ठारसगस्स निप्फत्ति ॥ करणेति-करणकारणानुमतयः । 'जोएत्ति'-मनोवाक्काययोगाः । सन्नत्ति । आहारभयमैथुनपरिग्रहसञ्ज्ञाः । 'इंदिअत्ति' श्रोत्रचक्षुर्घाणरसनस्पर्शनेन्द्रियाणि । 'भूमाइत्ति'-पृथिव्यपतेजोवायुवनस्पतिद्वित्रिचतुष्पञ्चेन्द्रिया अजीवाश्च । 'समणधम्मोत्ति' ।
खंती मद्दव अज्जव, मुत्ती तव संजमे अ बोधव्वे। सच्चं सोअं आकिंचणं च बंभं च जइधम्मो ॥ पाठश्चैवम्- . जे नो करंति मणसा, निज्जिअआगारसन्नसोइंदी। .
पुढविक्कायरंभं खंतिजुआ ते मुणी वंदे ॥ इत्यादि । एतद्व्यक्तिश्च यन्त्रकाद्विज्ञेया । श्रमणधर्मरथपाठश्चैवं
न हणेइ सयं साहू, मणसा आहारसन्नसंवुडओ।
सोइंदिअसंवरणो, पुढविजिए खंतिसंपन्नो ॥ . इत्यादि । एवं सामाचारीरथ-क्षामणारथ-नियमरथाऽऽलोचनारथतपोरथ-संसाररथ-धर्मरथ-संयमरथादिपाठा अपि. विज्ञेयाः। विस्तरभयात्तु नोक्ताः । नमस्कारबलके च पञ्चपदान्याश्रित्यैका पूर्वानुपूर्वी, एका पश्चानुपूर्वी, शेषा अष्टादशोत्तरं शतमनानुपूर्व्यः । नवपदान्याश्रित्य पुनरनानुपूर्व्यस्तिस्रो लक्षा द्वाषष्टिः सहस्रा अष्टौ शतान्यष्टसप्ततिश्च । एतत्करणभावनाव्यक्तिः पूज्यश्रीजिनकीर्तिसूरिपादोपज्ञसटीकश्रीपञ्चपरमेष्ठिस्तवादवसेया । एवं नमस्कारपरावर्त्तनेऽत्रापि दुष्टशाकिनीव्यन्तरवैरिग्रहमहारोगादीनां सद्यो निवृत्त्यादिफलं, परत्र त्वनन्तकर्मक्षयादि । यदाहुः
जं छम्मासिअवरिसिअतवेण तिव्वेण झिज्झए पावं ।
नमुक्कारअणणुपुब्बीगुणणेण तयं खणद्धेण ॥ शीलाङ्गरथादीनामपि गुणने मनोवाक्कायैकाग्रयेण त्रिविधमपि ध्यानं