________________
द्वितीयः प्रकाशः
१७५ पुव्वविहिणेव सव्वं, देवसिअं वंदणाइ तो कुणइ । सिज्जसुरी उस्सग्गे, भेओ संतिथयपढणे अ॥ एवं चिअ चउमासे, वरिसे अ जहक्कमं विही णेओ । पक्खचउमासवरिसेसु नवरि नामम्मि नाणत्तं ॥
तह उस्सग्गोजोआ, बारसवीसासमंगलगचत्ता । . . संबुद्धखामणं ति पण सत्त साहूण जहसंखं ॥
हारिभद्रावश्यकवृत्तौ तु वन्दनकनियुक्तिगत-चत्तारि पडिक्कमणे इति गाथाव्याख्यायामेवमुक्तं सम्बुद्धक्षमणकविषये-जहन्नेणवि तिन्नि देवसिए, पक्खिए पंच अवस्सं, चाउम्मासिए संवच्छरिए वि सत्त अवस्सं । पाक्षिकसूत्रवृत्तौ प्रवचनसारोद्धारवृत्त्युक्तवृद्धसामाचार्यां चाप्येवमेवोक्तम् । प्रतिक्रमणानुक्रमभावना पूज्यश्रीजयचन्द्रसूरिकृतग्रन्थाद् ज्ञेया । इति प्रतिक्रमणविधिः। ___तथा आशातनापरिहारादिकेन विधिना विश्रामणाम् उपलक्षणत्वात् सुखसंयमयात्रापृच्छादि च करोति, अर्थान् मुनीनां विशेषधर्मनिष्ठश्राद्धादीनां च । विश्रामणाफलं प्राग्भवयतिपञ्चशतीविश्रामणाकरणोस्थचक्रयधिकबलबाहुबल्यादेरिव भाव्यम् । इंह साधुभिरुत्सर्गतः सम्बाधना न कारयितव्या, 'संवाहणं दंतपहोअणाय' इति वचनात् । द्वितीयपदे साधुभ्यः सकाशात् कारयितव्या, तदभावे तथाविधश्रावकादेरपि । यद्यपि मुख्यवृत्त्या भगवन्तो महर्षयो विश्रामणां न कारयन्ति, तथापि परिणामविशुद्ध्या तद्विषये क्षमाश्रमणं ददतो निर्जरालाभो विनयश्च कृतो भवति । ततः स्वाध्यायं स्वप्रज्ञानुसारेण पूर्वाधीतदिनकृत्यादिश्रावकविध्युपदेशमालाकर्मग्रन्थादिपरावर्तनरूपं शीलाङ्गादिरथनमस्कारावलकादिगुणनरूपं वा चित्तैकाग्रताद्यर्थं करोति । शीलाङ्गरथस्त्वनया गाथया विज्ञेयः ।