________________
द्वितीयः प्रकाशः
१८३
कषायाद्युत्पत्तिनिमित्त-द्रव्य - क्षेत्रादिवस्तुपरित्यागेनापि तत्तद्दोष -
परित्यागः स्यात् । उक्तञ्च—
तं वत्थं मुत्तव्वं, जं पड़ उप्पज्जए कसायग्गी । तं वत्थं घेत्तव्वं, जत्थोवसमो कसायाणं ॥
श्रूयतेऽपि चण्डरुद्राचार्यः प्रकृतिक्रोधनः क्रोधोत्पत्तिपरित्यागाय शिष्येभ्यः पृथगेव स्थित्यादि चक्रे । भवस्थितेरत्यन्तदुःस्थता गतिचतुष्केऽपि प्रायो दुःखप्राचुर्यानुभवाद् भावनीया । तत्र नारकतिरश्चां दुःखैकबाहुल्यं प्रतीतम् । आह च
सत्तसु खित्तजवियणा, अन्नुन्नकयावि पहरणेहि विणा । पहरणकावि पंचसु तिसु परमाहम्मिअकावि ॥ अच्छिनिमीलणमित्तं, नत्थि सुहं दुक्खमेव अणुबद्धं । नरए नेरइयाणं, अहोनिसं पच्चमाणाणं ॥
जं नरए नेरइआ, दुक्खं पावंति गोअमा ! तिक्खं । तं पुण निगीअमज्झे, अनंतगुणियं मुणेअव्वं ॥ तिरिआ कसंकुसारा इत्यादि । मानुष्यकेऽपि गर्भजन्मजरामरणविविधातिव्याधिदौस्थ्याद्युपद्रवैर्दुःखितैव । देवत्वेऽपि च्यवनदास्यपरा
भवेर्ष्यादिभिः । ऊचे च
सूईर्हि अग्गिवण्णाहिं संभिण्णस्स निरन्तरं । जारिसं गोअमा दुक्खं, गब्भे अट्टगुणं तओ ॥ गब्भाओ नीहरंतस्स, जोणीजंतनिपीलणे । सयसाहस्सिअं दुक्खं, कोडाकोडीगुणं पि वा ॥ चारगनिरोहवहबंधरोगधणहरणमरणवसणारं । मणसंतावो अयसो, विग्गोवणया य माणुस्से ॥ चिंतासंतावेहि अ, दारिद्दरुआहिं दुप्पउत्ताहिं । लद्धूण वि माणसुतं, मरंति केई सुनिव्विन्ना ॥ ईसाविसायमयको हमायलोभेहिं एवमाहिं । देवा व समभिभूआ, तेसिं कत्तो सुहं नाम ॥