________________
१७०
श्राद्धविधिकौमुदीसक्षेपः क्रमणमपि सद्भावेऽतिचारान् विशोधयति । तदभावे चारित्रधर्मपुष्टिं करोति । अत्र कश्चिदाह-श्रावकस्याऽऽवश्यकचूर्युक्तसामायिकविधिरेव प्रतिक्रमणम् । षड्विधत्वस्योभयसन्ध्यमवश्यकरणीयत्वस्य चात्रैव घटमानत्वात् । तथाहि-सामायिकं कृत्वा ईर्यां प्रतिक्रम्य कायोत्सर्ग च विधाय चतुर्विंशतिस्तवं भणित्वा वन्दनकं च दत्वा श्रावकः प्रत्याख्यानं करोति इति षड्विधत्वम् । “सामाइअमुभयसंझं" इति वचनादस्य च कालनैयत्यमिति अत्रोच्यते, न समीचीनमिदम् षड्विधत्वस्य काल-.. नियमस्य चात्राऽसिद्धत्वात्, तत्र तावत्तवाभिप्रायेणाऽपि चूर्णिकृता सामायिकेर्यापथप्रतिक्रमणवन्दनकान्येव साक्षाद्दर्शितानि न शेषाणि, तत्रापीर्यापथप्रतिक्रमणं गमनागमनविषयं नावश्यकतुर्याऽध्ययनरूपम्,' ..
गमणागमणविहारे, सुत्ते वा सुमिणदंसणे राओ । - नावा नइसंतारे, इरिआवहिआपडिक्कमणं ॥
इत्यादिवचनात् । अथ साध्वनुसारेण श्रावकस्येर्यापथप्रतिक्रमणे कायोत्सर्गचतुर्विंशतिस्तवावपि दर्येते तर्हि तदनुसारेण किं न प्रतिक्रमणमपि तस्योच्यते ? । किञ्च ‘असइ साहुचेइयांणं पोसहसालाए वा सगिहे वा सामाइयं वा आवस्सयं वा करेइ' इत्यावश्यकचूर्णावपि सामायिकादावश्यकं पृथगुक्तम् । तथा सामायिकस्य न कालनैयत्यम् । 'जत्थ वा वीसमइ अत्थइ वा निव्वावारो सव्वत्थ करेइ । तथा जाहे खणिओ ताहे . करेड़ तो से न भज्जइ' इति चूर्णिवचनप्रामाण्यात् । सामाइयमुभयसंझं इति तु सामायिकप्रतिमापेक्षं, तत्रैव तत्कालनियमस्य श्रूयमाणत्वात् । । अनुयोगद्वारसूत्रे तु स्फुटं श्रावकस्यापि प्रतिक्रमणमुक्तम् । यथा___समणे वा समणी वा सावए वा साविआ वा तच्चित्ते तम्मणे तल्लेसे तदज्झवसिए तत्तिव्वज्झवसाणे तट्ठोवउत्ते तदप्पिअकरणे तब्भावणाभाविए उभओ कालमावस्सयं करेड़ । तथा तत्रैव