SearchBrowseAboutContactDonate
Page Preview
Page 192
Loading...
Download File
Download File
Page Text
________________ द्वितीयः प्रकाशः रात्रिकृत्यम् - उक्तं दिनकृत्यं साम्प्रतं रात्रिकृत्यमाह-'पडिक्कमइ त्ति' । ततः श्राद्धः साधुपार्श्वे पौषधशालादौ वा यतनया प्रमार्जनापूर्वं सामायिककरणादिविधिना प्रतिक्रामति, षड्विधाऽऽवश्यकलक्षणं प्रतिक्रमणं करोति । तत्र स्थापनाचार्य-स्थापना-मुखवस्त्रिका-रजोहरणादिधर्मोपकरणग्रहणसामायिककरणादिविधिः श्राद्धप्रतिक्रमणसूत्रवृत्ती 'कश्चिदुक्त इत्यत्र नोच्यते । प्रतिक्रमणं च सम्यक्त्वादिसर्वातिचारविशुद्धयर्थं प्रतिदिवसमुभयसन्ध्यमपि विधेयं श्राद्धेनाऽभ्यासाद्यर्थं च । यथाभद्रकेणापि जातु निरतिचारत्वेऽपि तृतीयवैद्यौषधकल्पमवश्यं • कर्त्तव्यमिदम् । यदार्षम् ‘सपडिक्कमणो धम्मो, पुरिमस्स य पच्छिमस्स य जिणस्स। . मज्झिमगाण जिणाणं, कारणजाए पडिक्कमणं ॥ कारणजाएत्ति अतिचाराभावे पूर्वकोट्यामपि न प्रतिक्रामन्ति, अतिचारे मध्याह्नेऽपि कुर्युरित्यर्थः । वाहिमवणेइ भावे, कुणइ अभावे तयं तु पढमंति । 'बिइअमवणेइ न कुणइ, तइअं तु रसायणं होइ ॥ रसायणंति रसायनं सद्भावे व्याधि हरति । तदभावेऽपि सर्वाङ्गीणपुष्टिसुखबलवृद्धिहेतुरनागतव्याधिप्रतिबन्धकं च । एवं प्रति .... १. किञ्चिदिति को० ह० प्र० पाठः ।
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy