________________
१६८
श्राद्धविधिकौमुदीसङ्क्षेपः
सज्झाएण पसत्थं, झाणं जाणइ अ सव्वपरमत्थं । सज्झाए वहतो, खणे खणे जाइ वेरग्गं ॥
पञ्चविधस्वाध्यायदृष्टान्तादि आचारप्रदीपग्रन्थे व्यवृण्महीत्यत्र
नोक्तमित्यष्टमगाथार्थः ॥८॥
संझाइ जिणं पुणरवि पूयइ पडिक्कमइ कुणइ तह विहिणा विस्समणं सज्झायं, गिहं गओ तो कहइ धम्मं ॥ ९ ॥ उत्सर्गतः श्रावकेणैकवारभोजिनैव भाव्यम् । यदभाणि -
उस्सगेण तु सड्डो अ, सच्चित्ताहारवज्जओ । इक्कासणगभोई अ, बंभयारी तहेव य ॥
यश्चैकभक्तं कर्त्तुं न शक्नोति स दिवसस्याष्टमे भागेऽन्तर्मुहूर्त्तद्वय :लक्षणे । यामिनीमुखादौ तु रजनीभोजनमहादोषप्रसङ्गादन्त्यमुहूर्त्तादर्वागेव वैकालिकं करोति । उत्सूरे रात्रौ च भोजनेऽनेके दोषाः, तत्स्वरूपं सदृष्टान्तं मत्कृतार्थदीपिकातोऽवधार्यम् । वैकालिकानन्तरं च यथाशक्ति चतुर्विधाहारं त्रिविधाहारं द्विधाहारं वा दिवसचरमं सूर्योद्गमान्तं प्रत्याख्याति । मुख्यवृत्त्या दिवसे सति द्वितीयभङ्गे रात्रावपि ।
ननु दिवसचरमं निष्फलमेकाशनादिकेनैव गतार्थत्वात् ? नैवं, एकासनादिकं ह्यष्टाद्याकारम्, एतच्चतुराकारम् । अतः आकाराणां सङ्क्षेपकरणात् सफलमेवेदम् । निषिद्धरात्रिभोजनानामपि दिवसशेषे क्रियमाणत्वात्स्मारकत्वाच्च फलवदेवैत्याऽऽवश्यकलघुवृत्तौ । इदं च सुकरं बहुफलं च । इति दिवसचरमे एडकाक्षज्ञातम् । ततः सन्ध्यायाम् = अन्त्यमुहूर्त्तरूपायामस्तमयति सूर्येऽर्द्ध बिम्बादर्वाक् पुनरपि तृतीयवारं यथाविधि जिनं पूजयति ।
॥ इति श्रीतपागच्छाधिपश्रीसोमसुन्दरसूरि - श्रीमुनिसुन्दरसूरि - श्रीजयचन्द्रसूरिश्रीभुवनसुन्दरसूरिशिष्य- श्रीरत्नशेखरसूरिविरचितायां श्रीविधिकौमुदीनाम्यां श्राद्धविधिप्रकरणवृत्तौ दिनकृत्यप्रकाशकः प्रथमः प्रकाशः ॥