________________
प्रथमः प्रकाशः
१६७
एवम् 'अजीर्णप्रभवा रोगाः' इत्यजीर्णे । तथा
बलावरोधि निर्दिष्टं ज्वरादौ लङ्घनं हितम् ।
ऋतेऽनिलश्रमक्रोधशोककामक्षतज्वरान् ॥ इत्याधुक्तेः ज्वराक्षिरोगादौ । तथा देवगुरुवन्दनाद्ययोगे, तथा तीर्थगुरुनमस्करणविशेषधर्माङ्गीकरणप्रौढपुण्यकार्यप्रारम्भादिदिनेष्वष्टमीचतुर्दश्यादिविशेषपर्वसु च भोजनं त्याज्यम् । क्षपणादितपसोऽत्र परत्रापि बहुगुणत्वात् । यतः
अथिरं पि थिरं वंकं पि उज्जुअं दुल्हं पि तह सुलहं ।
दुस्सज्जंपि सुसज्जं, तवेण संपज्जए कज्जं ॥ - वासुदेवचक्रवर्त्यादीनां तत्तद्देवसेवकीकरणाद्यैहिककार्याण्यप्यष्टमादितपसा सिद्ध्यन्ति न त्वन्यथा । इति भोजनविधिः । - नमस्कारस्मरणेनोत्थितश्चैत्यवन्दनया देवान् गुरूंश्च यथायोगं वन्दते । सर्वं चेदं सुपत्तदाणाइजुत्ति इत्यत्रोक्ताऽऽदिशब्देन सूचितं मन्तव्यम् । .: अथोत्तरार्द्धव्याख्या - • भोजनानन्तरं प्रत्याख्याय दिवसचरिमं ग्रन्थिसहितादि वा प्रत्याख्यानं गुर्वादेर्वन्दनद्वयप्रदानुपूर्वमन्यथा वा कृत्वा, गीतार्थानां यतीनां गीतार्थश्राद्धपुत्रादीनां वा अन्तिके समीपे कुर्यात् स्वाध्यायं वाचना-पृच्छना-परावर्त्तना-धर्मकथाऽनुप्रेक्षालक्षणं यथायोगम् । तत्र निर्ज़रार्थं यथायोगं सूत्रादेर्दानं ग्रहणं च वाचना १। तस्मिंश्च शङ्किते गुरोः पृच्छनं पृच्छना २। पूर्वाधीतस्य सूत्रादेरविस्मृत्याद्यर्थमभ्यासः परावर्त्तना ३। जम्बूस्वाम्यादिस्थविरचरितस्याऽऽकर्णनं कथनं वा धर्मकथा ४। मनसैव सूत्रादेरनुस्मरणमनुप्रेक्षा ५। अत्र च तद्विद्भिः सह शास्त्रार्थरहस्यानि विचारयेदिति श्रीयोगशास्त्रोक्तेः । श्रीगुरुमुखश्रुत-शास्त्रार्थरहस्यपरिशीलनारूप: स्वाध्यायो विशेषकृत्यतया ज्ञेयः । स चात्यन्तगुणहेतुः । यतः