________________
द्वितीयः प्रकाशः
१७१ संमणेण सावएण य, अवस्सकायव्वयं हवइ जम्हा । .. अंतो अहोनिसस्स य तम्हा आवस्सयं नाम ॥
तस्मात् साधुवत् श्राद्धेनापि श्रीसुधर्मस्वाम्यादिपूर्वाचार्यपरम्परायातं प्रतिक्रमणं कार्यम् । मुख्यवृत्त्या द्विसन्ध्यं दिवसनिशाकृतपातकविशुद्धिहेतुत्वेन महाफलत्वात् । यदभ्यधिष्महि
. अघनिष्क्रमणं भावद्विषदा क्रमणं च सुकृतसङ्क्रमणम् ।
मुक्तेः क्रमणं कुर्याद् द्विः प्रतिदिवसं प्रतिक्रमणम् ॥ ... अत्र प्रतिक्रमणे श्राद्धदृष्टान्तः ढील्लीवास्तव्यः । एवं प्रतिक्रमणविषये यतनीयं । तच्च पञ्चभेदं-दैवसिकं, रात्रिकं, पाक्षिकं, चातुर्मासिकं, सांवत्सरिकं चेति । एषां कालस्तूत्सर्गेणैवमुक्तः ।
अद्धनिबुड्डे बिंबे, सुत्तं कळेति गीयत्था ।
इअवयणपमाणेणं, देवसियावस्सए कालो ॥ रात्रिकस्य चैवं
आवस्सयस्स समए, निद्दामुदं चयंति आयरिआ ।
तह तं कुणंति जह दस, पडिलेहाणंतरं सूरो ॥ · अपवादतस्तु दैवसिंकं दिवसतृतीयप्रहरादन्वर्द्धरात्रं यावत् । योगशास्त्रवृत्तौ तु मध्याह्नादारभ्याऽर्द्धरात्रं यावदित्युक्तम् । रात्रिकमर्द्धरात्रादारभ्य मध्याह्नं यावत् । उक्तमपि- . - उग्घाड़पोरिसिं जा, राइअमावस्सयस्स चुन्नीए । .... ववहाराभिप्पाया, भणंति पुण जाव पुरिमटुं ॥
पाक्षिकं चातुर्मासिक-सांवत्सरिकाणि पक्षाद्यन्ते च स्युः । आहपाक्षिकं चतुर्दश्यां पञ्चदश्यां वा ? चतुर्दश्यामिति ब्रूमः। यदि पुनः पञ्चदश्यां स्यात्तदा चतुर्दश्यां पाक्षिके चोपवासस्योक्तत्वात्पाक्षिकमपि षष्ठेन स्यात् । तथा च-अट्ठमछठ्ठचउत्थं संवच्छरचाउमासपक्खेसु इत्याद्यागमविरोधः । यत्र च चतुर्दशी गृहीता न तत्र पाक्षिकं, यत्र च पाक्षिकं न तत्र चतुर्दशी । तथाहि-अट्ठमिचउद्दसीसु उववासकरणं इति पाक्षिकचूर्णौ ।