________________
प्रथमः प्रकाशः
१६३ क्रमाच्चतुर्दशशतेभ्योऽन्वेकोनत्रिंशेऽब्देऽष्टभिर्देवालयैर्महायात्राकृल्लग्नविज्ञो ज्ञाताऽऽगामिदुर्भिक्षो लक्षद्वयान्नमणसङ्ग्रहादर्जितश्रीर्धान्यमणचतुर्विंशतिसहस्री प्रादत्त । बन्दीसहस्रमोचनषट्पञ्चाशन्नृपमोचनचैत्योद्घाटनपूज्यश्रीजयानन्दसूरिश्रीदेवसुन्दरसूरिपदद्वयस्थापनादीनि तस्य धर्मकृत्यानि। ततो दयादानं भोजनसमये विशिष्य कार्यम् । गृहिणा हि निःस्वेनापि तथौचित्येनान्नपानादि कार्यं यथाथिदीनादिसत्यापनमपि कियत् स्यात्। न चैवं तस्य कोऽप्यधिकव्ययः ते च स्तोकेनापि तुष्यन्ति। तदाह- .. .
ग्रासाद् गलितसिक्थेन (क्थस्य) किं न्यूनं करिणो भवेत् ? ।
जीवत्येव पुनस्तेन कीटिकानां कुटुम्बकम् ॥ एवं निष्पन्ननिरवद्याहारे सुपात्रदानमपि शुद्धं । तथा मातृपितृभ्रातृभगिन्यादीनामपत्यस्नुषाभृत्यादीनां ग्लानवृद्धगवादीनां च भोजनाधुचितचिन्तां कृत्वा पञ्चपरमेष्ठिप्रत्याख्याननियमस्मरणपूर्वं सात्म्याविरोधेन भुञ्जीत । यत:- . . .
पितुर्मातुः शिशूनां च गर्भिणीवृद्धरोगिणाम् ।। . प्रथमं भोजनं दत्त्वा स्वयं भोक्तव्यमुत्तमैः ॥.
चतुष्पदानां सर्वेषां धृतानां च तथा नृणाम् ।
चिन्तां विधाय धर्मज्ञः स्वयं भुञ्जीत नान्यथा ॥ सात्म्यं चैवं लक्षयन्ति
पानाहारादयो यस्माद्विरुद्धाः प्रकृतेरपि ।
सुखित्वायाऽवकल्पन्ते तत्सात्म्यमिति गीयते ॥ आजन्म सात्म्येन च भुक्तं विषमप्यमृतं स्याद्, असात्म्येन त्वमृतमपि विषम् । परमसात्म्यमपि पथ्यं सेवेत, न पुनः सात्म्यप्राप्तमप्यपथ्यम् । न हि सर्वं बलवतः पथ्यमिति मन्वानः कालकूटं खादेत् । सुशिक्षितोऽपि विषतन्त्रज्ञो म्रियत एव कदाचिद्विषास्वादात् । तथा