________________
१६४
श्राद्धविधिकौमुदीसक्षेपः कण्ठनाडीमतिक्रान्तं सर्वं तदशनं समम् ।
क्षणमात्रसुखस्यार्थे लौल्यं कुर्वन्ति नो बुधाः ॥ इत्युक्तेर्लोल्यपरिहारेणाऽभक्ष्यानन्तकायादिबहुसावा 'वस्तु वय॑म् । यथाऽग्निबलं मात्रया मितं च भुञ्जीत । यो हि मितं भुङ्क्ते स बहु भुङ्क्ते । अतिरिक्तभोजने त्वजीर्ण-वमन-विरेचनमरणाद्यपि. न दुर्लभम् । भणितमपि
जिहे जाण पमाणं, जिमिअव्वे तह य जंपिअव्वे अ। अइजिमिअजंपिआणं, परिणामो दारुणो होइ ॥ अन्नान्यदोषाणि मितानि भुक्त्वा वचांसि चेत्त्वं वदसीत्थमेव। जन्तोर्युयुत्सोः सह कर्मवीरैस्तत्पट्टबन्धो रसने ! तवैव ॥ . हितमितविपक्कभोजी वामशयी नित्यचङ्क्रमणशीलः।
उज्झितमूत्रपुरीषः स्त्रीषु जितात्मा जयति रोगान् ॥ भोजनविधिश्च व्यवहारशास्त्राद्यनुसारेणायम्
अतिप्रातश्च सन्ध्यायां रात्रौ कुत्सन्नथ व्रजन् । . सव्याङ्ध्रौ दत्तपाणिश्च नाद्यात्पाणिस्थितं तथा ॥ साकाशे सातवे सान्धकारे द्रुमतलेऽपि च । कदाचिदपि नाश्नीयादूर्वीकृत्य च तर्जनीम् ॥ अधौतमुखवस्त्राज्रिनग्नश्च मलिनांशुकः । सव्येन हस्तेनाऽनात्तस्थालो भुञ्जीत न क्वचित् ॥ एकवस्त्रान्वितश्चावासा वेष्टितमस्तकः । अपवित्रोऽतिगाद्धर्यश्च न भुञ्जीत विचक्षणः ॥ उपानत्सहितो व्यग्रचित्तः केवलभूस्थितः । पर्यस्थो विदिग्याम्याननो नाद्यात् कृशासनः ॥ आसनस्थपदो नाऽद्यात् श्वचण्डालैर्निरीक्षितः ।
पतितैश्च तथा भिन्ने भाजने मलिनेऽपि च ॥ १. वस्तुवर्जम् इति को० ह० प्र० पाठः ।