________________
१६२
श्राद्धविधिकौमुदीसक्षेपः प्रतोली प्रत्यहमुद्घाटयामास । तन्मर्मणा तु गणिकोक्तेन शत्रुभिर्दुर्गग्रहादि कृतम् । ततः श्राद्धेन भोजनसमये द्वारं न पिधातव्यं, विशिष्य च समृद्धेन । यत:
कुक्षिभरिन कस्कोऽत्र बह्वाधारः पुमान् पुमान् । ततस्तत्कालमायातान् भोजयेद् बान्धवादिकान् ॥ अतिथीनर्थिनो दुःस्थान् भक्तिशक्त्यनुकम्पनैः । कृत्वा कृतार्थानौचित्याद् भोक्तुं युक्तं महात्मनाम् ॥ . आगमेऽप्युक्तंनेव दारं पिहावेइ, भुंजमाणो सुसावओ। अणुकंपा जिणिदेहि, सड्डाणं न निवारिआ ॥ ट्ठण पाणिनिवहं, भीमे भवसायरम्मि दुक्खत्तं । अविसेसओणुकंपं, दुहावि सामत्थओ कुणइ ॥
दुहावि त्ति-द्विधा द्रव्यभावाभ्याम् । द्रव्यतो यथार्हमन्नादिदानेन, भावतस्तु धर्ममार्गप्रवर्त्तनेन । श्रीपञ्चमाङ्गादौ तु श्राद्धवर्णके 'अवंगुअदुवारा' इति विशेषणेन भिक्षुकादिप्रवेशार्थं सर्वदाप्यपावृतद्वारा इत्युक्तम् । दीनोद्धारश्च सांवत्सरिकदानेन जिनैरप्याचीर्णो, विक्रमादित्यनृपेणापि भुवोऽनृणीकारिणा, ततस्तत्संवत्सरः प्रववृते । दुर्भिक्षादौ तु दीनोद्धारो विशेषफलः । यतः
विणए सिस्सपरिक्खा, सुहडपरिक्खा य होइ संगामे ।
वसणे मित्तपरिक्खा, दाणपरिक्खा य दुब्भिक्खे ॥ विक्रमात् त्रयोदशशतेभ्योऽनु पञ्चदशेऽब्दे महादुर्भिक्षे भद्रेश्वरपुरवासिश्रीमालसाधुजगडूादशोत्तरशतसत्रागारैर्दानं ददौ तथा
हम्मीरस्य द्वादश, वीसलदेवस्य चाष्ट दुर्भिक्षे ।
त्रिःसप्त सुरत्राणे, मुडसहस्रानदाज्जगडूः ॥ तथा अणहिल्लपत्तने सौवर्णिकसिङ्घाक: सौधे गजेन्द्रमहधिव