________________
प्रथमः प्रकाशः
१६१
अभयं सुपत्तदाणं, अणुकंपाउचिअकित्तिदाणं च । .. दोहि वि मुक्खो भणिओ, तिन्नि वि भोगाइअं दिति ॥ पात्रता त्वेवमुक्ता
उत्तमपत्तं साहू, मज्झिमपत्तं च सावया भणिआ ।
अविरयसम्मदिट्ठी, जहन्नपत्तं मुणेअव्वं ॥ तथा
मिथ्यादृष्टिसहस्रेषु वरमेको ह्यणुव्रती । अणुव्रतिसहस्रेषु वरमेको महाव्रती ॥ महाव्रतिसहस्त्रेषु वरमेको हि तात्त्विकः । तात्त्विकस्य (केन) समं पात्रं न भूतं न भविष्यति ॥ सत्पात्रं महती श्रद्धा काले देयं यथोचितम् । धर्मसाधनसामग्री बहुपुण्यैरवाप्यते ॥ अनादरो विलम्बश्च वैमुख्यं विप्रियं वचः । पश्चात्तापश्च पञ्चापि सद्दानं दूषयन्त्यमी ॥ भिउडी उद्धालोअणं अंतोवत्ता परम्मुहं ठाणं । मोणं कालविलंबो नक्कारो छव्विहो होइ ॥
आनन्दाश्रूणि रोमाञ्चो बहुमान: प्रियं वचः । .
किञ्चाऽनुमोदना पात्रदाने भूषणपञ्चकम् ॥ . . . सुपात्रदाने परिग्रहपरिमाणनियमपालने च रत्नसारकुमारकथा ।
एवं साध्वादिसंयोगेऽवश्यं सुपात्रदानं प्रतिदिनं विवेकी विधिना विधत्ते । तथा यथाशक्ति तदवसराद्यायातसार्मिकान् सह भोजयति । तेषामपि पात्रत्वात्, तद्वात्सल्यविध्याद्यग्रे वक्ष्यते । तथा ददात्यौचित्येनाऽन्येभ्योऽपि द्रमकादिभ्यः । न प्रत्यावर्त्तयति तान्निराशान् । न कारयति कर्मबन्धनम् । न गर्हयति धर्मम् । न भवति निष्ठुरहृदयः । भोजनावसरे द्वारपिधानादि न हि महतां दयावतां वा लक्षणम् । श्रूयतेऽपि चित्रकूटे चित्राङ्गदनृपः, शत्रुसैन्यैर्दुर्गे वेष्टितेऽपि तत्प्रवेशभयोद्रेकेऽपि भोजनकाले