________________
१६०
श्राद्धविधिकौमुदीसङ्क्षेपः विप्रियोक्ति-पश्चात्तापादिदानदोषवर्जमेकान्तात्मानुग्रहबुद्ध्या द्विचत्वारिंशद्भिक्षादोषाद्यदूषितनिःशेषनिजान्नपानवस्त्रादेर्भोजनाद्यनुक्रमेण स्वयं स्वहस्तपात्रधरणादिना पार्वे स्थित्वा भार्यादिपाश्र्वाद्वा दानं दत्ते । द्विचत्वारिंशद् भिक्षादोषाः पिण्डविशुद्धयादिभ्योऽभ्यूह्याः । ततो वन्दित्वा . स्वगृहद्वारादि यावदनुव्रज्य च निवर्त्तते । साध्वभावे त्वनभ्रवृष्टिवत्साध्वागमनं जातु स्यात्तदा कृतार्थः स्यामिति दिगालोकं कुर्यात् । तथा चाहुं:
जं साहूण न दिन्नं, कहिं पि तं सावया न भुंजंति । पत्ते भोअणसमए, दारस्सालोअणं कुज्जा ॥ संथरणम्मि असुद्धं, दुह्रवि गिण्हंत दिंतयाणहियं ।
आउरदिटुंतेणं, तं चेव हिअं असंथरणे ॥ . 'संथरणम्मि'त्ति संस्तरणे साधूनां निर्बाहे सति, असंस्तरणे अनिर्वाह दुर्भिक्षग्लानाद्यवस्थायामित्यर्थः । तथा
पहसंतगिलाणेसु, आगमगाहीसु तहय कयलोए। . उत्तरपारणगम्मि अ, दिन्नं सुबहुप्फलं होइ ॥ एवं देसं तु खित्तं तु विआणित्ता य सावओ।,. फासुअं एसणिज्जं च देइ जंजस्स जुग्गयं ॥ असणं पाणगं चेव, खाइमं साइमं तहा ।
ओसहं भेसजं चेव, फासुअं एसणिज्जयं ॥ औषधमेकमेव द्रव्यं, भेषजं तु बह्वौषधसंयोगः । साधुनिमन्त्रणभिक्षाग्रहणादिविधिविशेषो मत्कृतश्राद्धप्रतिक्रमणसूत्रवृत्तेरवधार्यः । इदं च सुपात्रदानमितिथिसंविभाग उच्यते । यदागमः-अतिहिसंविभागो नाम नायागयाणं कप्पणिज्जाणं अन्नपाणाईणं दव्वाणं देसकालसद्धासक्कारकम्मजुयं पराए भत्तिए आयाणुग्गहबुद्धीए संजयाणं दाणं' इति । सुपात्रदानं च दिव्यौदारिकाद्यद्भुतभोगाभीष्ट-सर्वसुखसमृद्धिसाम्राज्यदिसंयोगप्राप्तिपूर्वकनिविलम्बनिर्वाणशर्मप्राप्तिफलम् । यतः