________________
9
.
0
प्रथमः प्रकाशः
मो वक्तुं न विलोकितुं न हसितुं न क्रीडितुं नेरितुं, न स्थातुं न परीक्षितुं न पणितुं नो राजितुं नार्जितुम् । नो दातुं न विचेष्टितुं न पठितुं नानन्दितुं नैधितुं, यो जानाति जनः स जीवति कथं निर्लज्जचूडामणिः ॥ आसितुं शयितुं भोक्तुं परिधातुं प्रजल्पितुम् ।
वेत्ति यः स्वपरस्थाने विदुषां स नरोऽग्रणी ॥ इत्यलं प्रसङ्गेन । व्यवहारशुद्धयादित्रयेणार्थचिन्तायां ज्ञातम् । अत्र धनमित्रकथा इति सप्तमगाथार्थः ॥
मज्झण्हे जिणपूआ, सुपत्तदाणाइजुत्ति भुंजिता । पच्चक्खाइ.अ गीअत्थ-अंतिए कुणइ सज्झायं ॥८॥
... मध्याह्ने पूर्वोक्तविधिना विशिष्य च प्रधानशाल्योदनादिनिष्पन्ननिःशेषरसवतीढौकनादिना द्वितीयवारं जिनपूजा सुपात्रदानादियुक्त्यनतिक्रमेण भुक्त्वा भोजनं कृत्-त्यनुवादः । माध्याह्निकपूजाभोजनयोश्च न कालनियमः, तीव्रबुभुक्षो हि 'बुभुक्षाकालो भोजनकाल' इति रूढेमध्याह्रादयंगपि गृहीतप्रत्याख्यानं तीरयित्वा देवपूजापूर्वकं भोजनं कुर्वन्न दुष्यति । आयुर्वेदे त्वेवमुक्तं.. याममध्ये न भोक्तव्यं यामयुग्मं न लङ्घयेद् । .. याममध्ये रसोत्पत्तिर्युग्मादूर्ध्वं बलक्षयः ॥ - सुपात्रादानादियुक्तिश्चेयम् भोजनवेलायां सभक्ति साधून् निमन्त्र्य तैः सह गृहमायाति । स्वयमागच्छतो वा मुनीन् दृष्ट्वा सम्मुखं गमनादिकं करोति । ततः सविनयं संविग्नभाविताभावितक्षेत्र-सुभिक्षदुर्भिक्षादिकाल-सुलभदुर्लभादिदेयद्रव्य-आचार्योपाध्यायगीतार्थतपस्विबालवृद्धग्लान-सहाऽसहादिपुरुषाद्यपेक्षया स्पर्धा-महत्त्व-मत्सर-स्नेह-लज्जाभय-दाक्षिण्य-परानुवर्तना-प्रत्युपकारेच्छा-माया-विलम्बाऽनादर