________________
१५८
श्राद्धविधिकौमुदीसङ्क्षपः शत्रुमुत्पाटयेत् प्राज्ञस्तीक्ष्णं तीक्ष्णेन शत्रुणा। .. पादलग्नं करस्थेन कण्टकेनेव कण्टकम् ॥ अविमृश्य स्वपरयोः शक्तिमुत्तिष्ठते तु यः । सोऽब्दशब्दे शरभवत् प्रोल्ललन्नङ्गभङ्गभाक् ॥ उपायेन हि तत्कुर्याद्यन्न शक्यं पराक्रमैः। काक्या कनकसूत्रेण कृष्णसर्पो निपातितः ॥ . नखिनां च नदीनां च शृङ्गिणां शस्त्रपाणिनाम् । विश्वासो नैव कर्त्तव्यः स्त्रीषु राजकुलेषु च ॥ सिंहादेकं बकादेकं शिक्षेच्चत्वारि कर्कुटात् । वायसात्पञ्च शिक्षेत षट् शूनस्त्रीणि गर्दभात् ॥ प्रभूतकार्यमल्पं वा यो नरः कर्तुमिच्छतिः। . सरिंभेण तत्कुर्यात् सिंहस्यैकं. पदं यथा ॥ . बकवच्चिन्तयेदर्थान् सिंहवच्च पराक्रमम् । ' वृकवच्चावलुम्पेत शशवच्च पलायनम् ॥ प्रागुत्थानं च युद्धं च संविभागं च बन्धुषु । स्त्रियमाक्रम्य भुञ्जीत शिक्षेच्चत्वारि कुर्कुटात् ॥ गूढं च मैथुनं धायं काले चालयसङ्ग्रहः । अप्रमादमविश्वासं पञ्च शिक्षेत वायसात् ॥ बह्वाशी चाल्पसन्तुष्टः सुनिद्रो लघुचेतनः । स्वामिभक्तश्च शूरश्च षडेते श्वानतो गुणाः ॥ .. आरूढं तु (सुश्रान्तोऽपि) वहेद्भारं शीतोष्णं न च विन्दते ।
सन्तुष्टश्च भवेन्नित्यं त्रीणि शिक्षेत गर्दभात् ॥ इत्याद्यन्यदपि नीतिशास्त्रायुक्तं सर्वमौचित्यं सुश्रावकेण सम्यक् चिन्त्यम् । यतः
हितमहितमुचितमनुचितमवस्तु वस्तु स्वयं न यो वेत्ति । स पशुः शृङ्गविहीनः संसारवने परिभ्रमति ॥