________________
प्रथमः प्रकाशः
१५७
वृद्धो ज्ञातिस्तथा मित्रं दरिद्रो यो भवेदिह । गृहे वासयितव्यास्ते गृहवृद्धिमभीप्सता ॥ अपमानं पुरस्कृत्य मानं कृत्वा च पृष्ठतः । स्वार्थमभ्युद्धरेत् प्राज्ञः स्वार्थभ्रंशो हि मूर्खता ॥ न स्वल्पस्य कृते भूरि नाशयेन् मतिमान्नरः । एतदेव च पाण्डित्यं यत् स्वल्पाद् भूरिरक्षणम् ॥ आदानस्य प्रदानस्य कर्त्तव्यस्य च कर्मणः । क्षिप्रमक्रियमाणस्य कालः पिबति तद्रसम् ॥ नाभ्युत्थानक्रिया यत्र नालापो मधुराक्षरः । गुणदोषकथा नैव तस्य हर्ये न गम्यते ॥ अनाहूतः प्रविशति अपृष्टो बहु भाषते । अदत्तमासनं भुङ्क्ते स पार्थ ! पुरुषाधमः ॥ अशक्तः कुरुते कोपं निर्धनो मानमिच्छति । अगुणी च गुणद्वेषी पृथिव्यां लकुटत्रयम् ॥ मातापित्रोरभरकः क्रियामुद्दिश्य याचकः । मृतशय्याप्रतिग्राही न भूयः पुरुषो भवेत् ॥ बलीयसा समाक्रान्तो वैतसी वृत्तिमाश्रयेत् । वाञ्छन्नभ्रंशिनी लक्ष्मी न भौजङ्गी कथञ्चन ॥ क्रमाद्वेतसवृत्तिस्तु प्राप्नोति महतीं श्रियम् । भुजङ्गवृत्तिमापन्नो वधमर्हति केवलम् ॥ कूर्मः सङ्कोचमासाद्य प्रहारानपि मर्षयेत् । काले काले च मतिमानुत्तिष्ठेत् कृष्णसर्पवत् ॥ बलिनापि न बाध्यन्ते लघवोऽप्येकसंश्रयाः । विपक्षेणापि मरुता यथैकस्था न वीरुधः ॥ उच्छेदयन्ति विद्वांसो वर्द्धयित्वाऽरिमेकदा । गुडेन वद्धितः श्लेष्मा यतो निःशेषतां व्रजेत् ॥ सर्वस्वहरणे शक्तं शत्रु बुद्धियुता नराः । तोषयन्त्यल्पदानेन वाडवं सागरो यथा ॥