________________
१५४
श्राद्धविधिकौमुदीसङ्क्षेपः
स्वजातिकष्टं नोपेक्ष्यं तदैक्यं कार्यमादरात् । मानिनां मानहानिः स्यात्तद्दोषादयशोऽपि च ॥ स्वजातिं ये परित्यज्य परजातिषु ये रताः । ते नरा निधनं यान्ति यथा राजा कुकर्दमः ॥ नश्यन्ति ज्ञातयः प्रायः कलहादितरेतरम् । मिलता एव वर्द्धन्ते कमलिन्य इवाम्भसि ॥ दारिद्र्योपद्रुतं मित्रं नरं साधर्मिकं सुधीः । ज्येष्ठं ज्ञातिगुणैर्जामिमनपत्यां च यापयेत् ॥ सारथ्यायाऽन्यवस्तूनां विक्रयाय क्रयाय च । कुलानुचितकार्याय नोद्यच्छेद् गौरवप्रियः ॥ महाभारतादावप्येवमुक्तम्–
ब्राह्मे मुहूर्त्ते बुध्येत धर्मार्थौ चानुचिन्तयेत् । नेक्षेताऽऽदित्यमुद्यन्तं नास्तं यान्तं कदाचन ॥ उदङ्मुखो दिवा रात्रावुत्सर्गं दक्षिणामुखः । आबाधासु यथाकामं कुर्यान् मूत्रपुरीषयोः ॥ देवार्चनादिकार्याणि तथा गुर्वभिवादनम् । कुर्वीत च समाचम्य तद्वदेव' भुजिक्रियाम् ॥" अर्थस्योपार्जने यत्नः कार्य एव विपश्चिता । तत्संसिद्धौ हि सिद्ध्यन्ति धर्मकामादयो नृप ! ॥ पादेन कार्यं पारत्र्यं पादं कुर्याच्च सञ्चये । अर्द्धेन चात्मभरणं नित्यनैमित्तिकान्वितम् ॥ केशप्रसाधनादर्शदर्शनं दन्तधावनम् । पूर्वाह्न एव कार्याणि देवतानां च पूजनम् ॥ दूरादावसथान् मूत्रं दूरात्पादावसेचनम् । उच्छिष्टोत्सर्जनं दूरात्सदा कार्यं हितैषिणा ॥
लोष्ठमर्दी तृणच्छेदी नखखादी च यो नरः । नित्योच्छिष्टः 'शकृन्मूत्रैर्नेहायुर्विन्दते महत् ॥
१. वदन्नभुजि इति को० ह० प्र० पाठः । २. संकुसुको इति मु० ।