________________
प्रथमः प्रकाशः
कालत्रयेऽपि यत्किञ्चिदात्मप्रत्ययवर्जितम् । एवमेतदिति स्पष्टं न वाच्यं चतुरेण तत् ॥ प्रारभ्यते नरैर्यच्च कार्यं कारयितुं परैः । दृष्टान्तान्योक्तिभिर्वाच्यं तदने पूर्वमेव तत् ॥ यदि चान्येन केनापि तत्तुल्यं जल्पितं भवेत् । प्रमाणमेव तत्कार्यं स्वप्रयोजनसिद्धये ॥ यस्य कार्यमशक्यं स्यात्तस्य प्रागेव कथ्यते । नैहिरेयाहिरां कार्यो वचोभिर्वितथैः परः ॥ वैभाष्यं नैव कस्यापि वक्तव्यं द्विषतां तु चेत् । उच्यते तदपि प्राज्ञैरन्योक्तिच्छन्नभङ्गिभिः ॥ मातृपित्रातुमचार्यातिथिभ्रातृतपोधनैः । वृद्धबालाबलावैद्यापत्यदायादकिङ्करैः ॥ स्वसृसंश्रितसम्बन्धिवयस्यैः सार्द्धमन्वहम् । वाग्विग्रहंमकुर्वाणो विजयेत जगत्त्रयीम् ॥ युग्मम् । न पश्येत् सर्वदादित्यं ग्रहणं चार्कसोमयोः । नेक्षेताम्भो महाकूपे सन्ध्यायां गगनं तथा ॥ मैथुनं मृगयां नग्नां स्त्रियं प्रकटयौवनाम् । पशुक्रीडां च कन्याया योनि चाऽऽलकयेन्न हिं॥ न तैले न जले नास्त्रे न मूत्रे रुधिरे न च । वीक्षेत वदनं विद्वानित्थमायुस्त्रुटिर्यतः ॥ प्रतिपन्नस्य न त्यागः शोकश्च गतवस्तुनः । निद्राच्छेदश्च कस्यापि न विधेयः कदाचन ॥ अकुर्वन् बहुभिः दद्याद् बहुमते मतम् । गतास्वादानि कृत्यानि कुर्याच्च बहुभिः समम् ॥ शुभक्रियासु सर्वासु मुख्यैर्भाव्यं मनीषिभिः । नराणां कपटेनापि निस्पृहत्वं फलप्रदम् ॥ द्रोहप्रयोजने नैव भाव्यमत्युत्सुकैनरैः । कदाचिदपि कर्तव्यः सुपात्रेषु न मत्सरः ॥