________________
१५२
श्राद्धविधिकौमुदीसङ्क्षेपः
गोष्ठीरतिर्दरिद्रश्च क्षैब्यविस्मृतभोजनः । गुणहीनः कुलश्लाधी गीतगायी खरस्वरः ॥ भार्याभयान्निषिद्धार्थी कार्पण्येनाऽऽप्तदुर्दशः । व्यक्तदोषजनश्लाघी सभामध्यार्द्धनिर्गतः ॥ दूतो विस्मृतसन्देशः कासवांश्चौरिकारतः । भूरि भोज्यव्ययः कीर्त्तः श्लाघायै स्वल्पभोजन: स्वल्पभोज्येऽतिरसिको विक्षिप्तश्छद्मचाटुभिः । वेश्यासपत्नकलही द्वयोर्मन्त्रे तृतीयकः ॥ राजप्रसादे स्थिरधीरन्यायेन विवर्द्धिषुः । अर्थहीनोऽर्थकार्यार्थी जने गुह्यप्रकाशकः ॥ अज्ञातप्रतिभूः कीर्त्यै हितवादिनि मत्सरी । सर्वत्र विश्वस्तमना न लोकव्यवह्यरवित् ॥
भिक्षुकचोष्णभोजी च गुरुश्च शिथिलक्रियः ।
कुकर्मण्यपि निर्लज्जः स्यान् मूर्खश्च सहासगीः ॥ इति मूर्खशतम् । . अन्यदप्येवंविधं कुशोभाकृत्त्याज्यम् । उक्तं च विवेकविलासादौ
विजृम्भणक्षुतोद्गारहास्यादीन् पिहिताननः । कुर्यात् सभासु नो नासाशोधनं हस्तमोटनम् ॥ कुर्यात् पर्यस्तिकां नैव न चं पादप्रसारणम् । न निद्रां विकथां नापि सभायां कुक्रियां न च ॥ प्रस्तावेऽपि कुलीनानां हसनं स्फुरदोष्टकम् । अट्टहासोऽतिहासश्च सर्वथाऽनुचितौ पुनः ॥ स्वाङ्गवाद्यं तृणच्छेदं व्यर्थं भूमेर्विलेखनम् । नैव कुर्यान्नखैर्दन्तनखानामपि घर्षणम् ॥ न गर्वः सर्वथा कार्यो भट्टादीनां प्रशंसया । व्युत्पन्नश्लाघया कार्यः स्वगुणानां तु निश्चयः ॥ अवधार्या विशेषोक्तिः परवाक्येषु कोविदैः । नीचेन स्वं प्रति प्रोक्तं यत्तन्नानुवदेत्सुधीः ॥