________________
प्रथमः प्रकाशः
अप्रस्तावे पटुर्वक्ता प्रस्तावे मौनकारकः । लाभकाले कलहकृन् मन्युमान् भोजनलक्षणे ॥ कीर्णार्थ: स्थूललाभेन लोकोक्तौ क्लिष्टसंस्कृतः । पुत्राधीने धने दीनः पत्नीपक्षार्थयाचकः ॥ भार्याखेदात् कृतोद्वाहः पुत्रकोपात्तदन्तकः । कामुक स्पर्धया दाता गर्ववान् मार्गणोक्तिभिः ॥ धीदर्पान्न हितश्रोता कुलोत्सेकादसेवकः । दत्वार्थान् दुर्लभान् कामी दत्वा शुल्कममार्गगः ॥ लुब्धे भूभुजि लाभार्थी न्यायार्थी दुष्टशास्तरि । कायस्थे स्नेहबद्धाशः क्रूरे मन्त्रिणि निर्भयः ॥ कृतघ्ने प्रतिकार्यार्थी नीरसे गुणविक्रयी । स्वास्थ्ये वैद्यक्रियाशोषी रोगी पथ्यपराङ्मुखः ॥ लोभेन स्वजनत्यागी वाचा मित्रविरागकृत् । लाभकाले कृतालस्यो महद्धिः कलहप्रियः ॥ राज्यार्थी गणकस्योक्त्या मूर्खमन्त्रे कृतादरः । शूरो दुर्बलबाधायां दृष्टदोषाङ्गनारतिः ॥ क्षणरागी गुणाभ्यासे सञ्चयेऽन्यैः कृतव्ययः । नृपानुकारी मौनेन जने राजादिनिन्दकः ॥ दुःखे दर्शितदैन्यातिः सुखे विस्मृतदुर्गतिः । बहुव्ययोऽल्परक्षायै परीक्षायै विषाशनः ॥ दग्धार्थो धातुवादेन रसायनरसः क्षयी । . आत्मसंभावनास्तब्धः क्रोधादात्मवधोद्यतः ॥ नित्यं निष्फलसञ्चारी युद्धप्रेक्षी शराहतः । क्षयी शक्तविरोधेन स्वल्पार्थः स्फीतडम्बरः ॥ पण्डितोऽस्मीति वाचालः सुभटोऽस्मीति निर्भयः । उद्वेजनोऽतिस्तुतिभिर्मर्मभेदी स्मितोक्तिभिः ॥ दरिद्रहस्तन्यस्तार्थः सन्दिग्धेऽर्थे कृतव्ययः । स्वव्यये लेख्योद्वेग देवाशात्त्यक्तपौरुषः ॥
१५१