________________
१५०
श्राद्धविधिकौमुदीसङ्क्षेपः
स्युः ? तस्मादवश्यं धर्मार्थिभिरुचिताचरणनिपुणैर्भाव्यम् । अन्यत्राऽप्यूचे
सव्वत्थ उचिअकरणं, गुणाणुराओ रई अ जिणवयणे । अगु अ मज्झत्थं, सम्मद्दिट्ठिस्स लिंगाई ॥
मुंचति न मज्जायं, जलनिहिणो नाचला वि हु चलति । न कयावि उत्तमनरा, उचिआचरणं विलंघंति ॥ तेण चिअ जयगुरुणो, तित्थयरा विहु गिहत्थभावम्मि | अम्मापिऊणमुचिअं, अब्भुट्ठाणाइ कुव्वंति ॥ इति नवधौचित्यम् अवसरे चोचितं वचनमपि महते गुणाय । तदवादिष्मदाने याने माने, शयनासनपानभोजने वचने । सर्वत्राऽन्यत्रापि हि भवति महारसमयः समयः ॥ अतः समयज्ञता सर्वत्रौचित्यबीजम्
औचित्यमेकमेकत्र, गुणानां कोटिरेकतः । विषायते गुणग्राम, औचित्यपरिवर्जितः ॥ इत्युक्ते; । सर्वमनौचित्यं च त्याज्यम् । येन च कृतेन मूर्खत्वव्यपदेशस्तदप्यनुचितमिति परीहार्यम् । तदपि लौकिकशास्त्रोक्तं बहूपकारित्वात् प्रदर्श्यते । यथा—
शृणु मूर्खशतं राजंस्तं तं भावं विवर्जय । येन त्वं राजसे लोके दोषहीनो मणिर्यथा ॥ सामर्थ्ये विगतोद्योगः स्वश्लाघी प्राज्ञपर्षदि । वेश्यावचसि विश्वासी प्रत्ययी दम्भडम्बरे || द्यूतादिवित्तबद्धाशः कृष्याद्यायेषु संशयी । निर्बुद्धिः प्रौढकार्यार्थी विविक्तरसिको वणिक् ॥ ऋणेन स्थावरक्रेता स्थविरः कन्यकावरः । व्याख्याता चाश्रुते ग्रन्थे प्रत्यक्षार्थेऽप्यपह्नवी ॥ चपलापतिरीर्ष्यालुः शक्तशत्रुरशङ्कितः । दत्वा धनान्यनुशयी कविना हठपाठकः ॥