________________
प्रथमः प्रकाशः
१४९ वित्तं याचितास्तिलतुषमात्रमपि स्वोपकारं प्रकटमुद्धट्टयन्तस्तदैव दाक्षिण्यमुन्मुञ्चन्ति । स च स्वभाव एव तेषाम् । यतः
द्विजन्मनः क्षमा मातुर्द्वषः प्रेम पणस्त्रियाः ।
नियोगिनश्च दाक्षिण्यमरिष्टानां चतुष्टयम् ॥ - पूर्वोपात्तवित्तनिर्नाशाय च कृत्रिमानपि दोषानुत्पाद्य प्रत्युतैतान् नृपतिग्राह्यान् विदधति । यतः
उत्पाद्य कृत्रिमान् दोषान्, धनी सर्वत्र बाध्यते ।
निर्धनः कृतदोषोऽपि, सर्वत्र निरुपद्रवः ॥ "किंपुण' त्ति । यतः सामान्योऽपि क्षत्रियो वित्तार्थमभियुक्तः खड्गं दर्शयति किं पुनः प्रकृत्यमर्षणाः क्षोणिभुजः ? । एवं समानवृत्तिनागरवदसमानवृत्तिनागरेष्वपि यथार्हमौचित्यं चिन्त्यम् । . एयं परुप्परं मायराण पाएण समुचिआचरणं ।
परतिस्थिआण समुचिअमह किंपि भणामि लेसेणं ॥ एएसि तिथिआणं, भिक्खट्टमुवट्ठिआण निअगेहे ।
कायव्वमुचिअकिच्चं, विसेसओ रायमहिआणं ॥ उचितकृत्यं यथार्हदानादि । - जइवि न मणम्मि भत्ती, न पक्खवाओ अ तंग्गयगुणेसु । - उचिअं गिहागएसुत्ति तह वि धम्मो गिहीण इमो ॥ पक्षपातोऽनुमोदना । 'धम्मोत्ति' आचारः ।
गेहागयाणमुचिअं, वसणावडिआण तह समुद्धरणं ।
दुहिआण दया एसो, सव्वेसि सम्मओ धम्मो ॥ __पुरुषमपेक्ष्य मधुरालपनासननिमन्त्रणकार्यानुयोगतन्निर्माणादिकमुचितम् । दुःखितानां दीनानाथान्धबधिरव्याधितादीनां दया, यथाशक्ति तत्प्रतीकारश्च । ये किलानन्तरोक्ते लौकिकेऽप्युचिताचरणमात्रे कर्मणि न कर्मठास्ते कथं लोकोत्तरे लोकोत्तरनरसूक्ष्ममतिग्राह्ये च जैने धर्मे प्रवीणाः