SearchBrowseAboutContactDonate
Page Preview
Page 171
Loading...
Download File
Download File
Page Text
________________ श्राद्धविधिकौमुदीसङ्क्षेपः द्यपमानदण्डादयो दोषाः । एकवृत्तीनामसंहतत्वस्य विनाशहेतुत्वात् । पठ्यतेऽपि - १४८ कोदराः पृथग्ग्रीवा, अन्यान्यफलकाङ्क्षिणः । असंहता विनश्यन्ति, भारुण्डा इव पक्षिणः ॥ परस्परस्य मर्माणि, ये न रक्षन्ति जन्तवः । त एव निधनं यान्ति, वल्मीकोदरसर्पवत् ॥ समुवट्ठिए विवाए, तुलासमाणेहिं चेव ठायव्वं । कारणसाविक्खेहिं, विहुणेअव्वो न नयमग्गो ॥ कारण त्ति स्वजनसम्बन्धिज्ञातेयलञ्चोपकारादिसापेंक्षैर्नयमार्गो न विधूनयितव्यः । बलिएहिं दुब्बलजणो, सुंककराईहिं नाभिभविअव्वो । थेवावराहदोसे वि दंडभूमिं न नेअव्व ॥ शुल्ककराधिक्यनृपदण्डादिभिरपि हन्यमाना जना मिथो विरक्ताः संहतिमुज्झन्ति । संहतिविनाकृताश्च बलवत्तरा अपि वनसंहतिविरहिताः सिंहा इवाभिभूयन्ते एव । तस्मात् परस्परसंहतिरेव श्रेयस्करी । उक्तञ्चसंहतिः श्रेयसी पुंसां, स्वपक्षे तु विशेषतः । तुषैरपि परिभ्रष्टा, न प्ररोहन्ति तन्दुलाः ॥ गिरयो येन भिद्यन्ते धरा येन विदार्यते । संहतेः पश्य माहात्म्यं, तृणैस्तद्वारि वार्यते ॥ कारणिएहिं पि समं, कायव्वो ता न अत्थसंबंधो । किं पुण पहुणा सद्धि, अप्पहिअं अहिलसंतेहिं ॥ कारणिकैः श्रीव्ययात् राजदेवधर्मोपपदकरणादिनियुक्तैस्तदुपजीविभिरन्यैरपि सह द्रव्यव्यवहारः कदापि न कार्यः । ते हि धनादानावसर एव प्रायः प्रसन्नमुखरागाः प्रकटितकृत्रिमालापसम्भाषणासनताम्बूलप्रदानादिबाह्याडम्बराः सौमनस्यमाविर्भावयन्तः, प्रस्तावे च स्वदत्तमपि
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy