________________
प्रथमः प्रकाशः
१४७ 'सव् ति' सम्मुखागमनाभ्युत्थानासनदानसंवाहनादि शुद्धवस्त्रपात्राहारादिप्रदानादिकञ्च ।
भावोवयारमेसि, देसंतरठिओ वि सुमड़ सयावि ।
इअ एवमाइगुरुजणसमुचिअमुचिअं मुणेअव्वं ॥ भावोपकारः सम्यक्त्वदानादि ।
जत्थ सयं निवसिज्जइ, नयरे तत्थेव जे किर वसंति ।
ससमाणवत्तिणो ते, नायरया नाम वच्चंति ॥ स्वसमानवृत्तयो वणिग्वृत्तिजीविनः ।
समुचिअमिणमो तेसिं, जमेगचित्तेहिं समसुहदुहेहि ।
वसणूसवतुल्लगमागंमेहिं निच्चं पि होअव्वं ॥ 'तुल्ल त्ति' तद्व्यसनागमे स्वयमपि व्यसनावलीटैरिव तदुत्सवे च सोत्सवैरिव भाव्यम् । अन्यथाऽन्योऽन्योदासीना नृपनियोगि'मृगयूनामामिषमेव पौरलोकाः ।. . . कायव्वं कज्जं वि हु, न इक्कमिक्केण दंसणं पहुणो।
कज्जे( ज्जो )न मंतभेओ, पेसुन्नं परिहरेअव्वं ॥ - महत्यपि कार्ये पृथक् पृथग् महत्त्वेच्छया राज्ञो दर्शनेऽन्यवैमनस्यादयो दोषाः, तस्मात्समुदितैरेव तुल्यत्वेऽपि यवनवत्कस्यचिन्मुख्यत्वप्रदानादिना मिथः सापेक्षैः, पुनर्नुपादेशात्परीक्षार्थमन्त्र्यर्पितैकशय्याशाय्यवलगकपञ्चशतीवदबद्धैर्नृपदर्शनविज्ञप्त्यादि विधेयम् । यतः
बहूनामप्यसाराणां, समुदायो जयावहः ।
तृणैरावेष्टिता रज्जुर्यया नागोऽपि बध्यते ॥ मन्त्रभेदे च कार्यविपत्तिनृपप्रकोपादयो दोषाः, तस्मात्संवृतमन्त्रैर्भाव्यम् । राजादीनां पुरः परस्परदूषणोद्घोषणे च लब्धमध्यत्वान्नृपा
१. नियोगे इति को० ह० प्र० पाठः ।