________________
१४६
श्राद्धविधिकौमुदीसक्षेपः आएसं बहु मन्नइ, इमेसि मणसावि कुणइ नावन् । रुंभइ अवनवायं, थुइवायं पयडइ सयावि ॥ अवर्णवादमधार्मिकैविधीयमानं यथाशक्ति नियमेन रुणद्धि नोपेक्षते।
न केवलं यो महतां विभाषते शृणोति तस्मादपि यः स पापभाग्-इति श्रुतेः । 'पयडइ त्ति' समक्षमसमक्षं वाऽगण्यपुण्यानुबन्धित्वात्तस्य ।।
न हवइ छिद्दपेही, सुहिव्व अणुअत्तए सुहदुहेसु ।
पडिणीअ पच्चवायं, सव्वपयत्तेण वारे ॥ 'सुहिव्व त्ति' सुहृदिवानुवर्तते, तत्सुखेन सुखी तद्दुःखेन दु:खी चेत्यर्थः । ननु कथमप्रमत्तेषु निर्ममत्वेषु च गुरुषु छिद्रान्वेषित्वं सुहृदादयो भावाः श्रावकाणां सम्भवन्ति ? सत्यम्, इदृशा एव ते, परं भिन्नभिन्नप्रकृतीनामुपासकानामुन्मीलन्त्येव तेष्वपि स्वस्वप्रकृतिसमुचिता भावाः । यत्स्थानाङ्गसूत्रम्___ 'गोयमा ! चउब्विहा सावया पन्नत्ता, मायापिअरसमाणे भायसमाणे मित्तसमाणे सवत्तिमाणे' इत्याद्युक्तं प्राक् । पडिणीय त्ति प्रत्यनीकोपप्लवञ्च सर्वशक्त्या वारयति । उक्तं हि
साहूण चेइआण य, पडिणीअं तह अवन्नवायं च।
जिणपवयणस्स अहिअं, सव्वत्थामेण वारे ॥
अत्र सगरचक्रिपौत्रभगीरथस्य जीवः, प्रान्तग्रामवासिषष्ठिसहस्रमनुष्यैर्यात्रार्थिसङ्घोपद्रवे तन्निवारक: कुम्भकारो ज्ञातम् । .
खलिअम्मि चोइओ गुरुजणेण मन्नइ तहत्ति सव्वं पि। ।
चोएइ गुरुजणं पि हु, पमायखलिएसु एगंते ॥ 'चोएइ त्ति' भगवन् ! किमिदमुचितं सच्चरित्रवतां तत्रभवतां भवताम् ? इत्यादिना ।
कुणइ विणओवयारं, भत्तीए समयसमुचिअं सव्वं । . गाढं गुणाणुरायं, निम्मायं वहइ हिअयम्मि ॥