________________
प्रथमः प्रकाशः
१४५
आतुरे व्यसने प्राप्ते, दुर्भिक्षे शत्रुसङ्कटे।
राजद्वारे स्मशाने च, यस्तिष्ठति स बान्धवः ॥ इति वचनात् । ___ स्वजनोद्धरणं हि तत्त्वत आत्मोद्धरणमेव । यतोऽरघट्टघटीनामिव प्राणिनां प्रायोऽनैकान्तिकी रिक्तता पूर्णता च । ततः कदाचिद्दुर्दैवादात्मनोऽप्युपस्थितायां दुरवस्थायामुपकृतचरेभ्यस्तेभ्य एवोद्धृतिः स्याद्, अत: समयं प्राप्य स्वजनोद्धारो विधेय एव ।
खाइज्ज पिट्ठिमंसं, न तेसि कुज्जा न सुक्ककलहं च ।
तदमित्तेहिं मित्तिं, न करिज्ज करिज्ज मित्तेहिं ॥ शुष्ककलहो हास्यादिना वाग्वादश्चिरप्ररूढप्रीतिलतालवित्ररूपः ।
तयभावे तग्गेहं, न वइज्ज चइज्ज अत्थसम्बन्धं ।
गुरुदेवधम्मकज्जेसु एगचित्तेहिं होअव्वं ॥ प्रोषितपुरुषे केवलोषितयोषिति स्वजनगृहे एकाकी न प्रविशेत् । स्वजनैः सह द्रव्यळ्यवहारोऽपि प्रथमं किञ्चित् प्रणयं प्रपञ्चयन्नपि पर्यन्ते प्रथयत्येव प्रतिपन्थिताम् । तथाह.. यदीच्छेद्विपुलां प्रीतिं, त्रीणि तत्र न कारयेत् । .. वाग्वादमर्थसंबंधं, परोक्षे दारदर्शनम् ॥ (भाषणम्) . . . . ऐहिककार्येष्वपि स्वजनादिभिरेकचित्ततैवायातिहिता । चैत्यादिकार्येषु तु विशिष्य, बह्वधीनत्वात्तेषाम् । तथैव च निर्वाहशोभादिसम्भवाद्, अतस्तानि सर्वसाम्मत्येन कार्याणि । अत्र स्वजनैः सहैक्ये पञ्चाङ्गल्यो ज्ञातम्।
एमाई सयणोचिअमह धम्मायरिअसमुचिअं भणिमो।
भत्तिबहुमाणपुव्वं, तेसिं तिसंज्झपि पणिवाओ ॥ भक्तिरान्तरी प्रीतिः । बहुमानस्तु वाचिक: कायिकश्च ।
तइंसिअ नीईए, आवस्सयपमुहकिच्चकरणं च । ___धम्मोवएससवणं, तदंतिए सुद्धसद्धाए ॥