SearchBrowseAboutContactDonate
Page Preview
Page 167
Loading...
Download File
Download File
Page Text
________________ १४४ श्राद्धविधिकौमुदीसक्षेपः प्रत्यक्षे गुरवः स्तुत्याः, परोक्षे मित्रबान्धवाः। कर्मान्ते दासभृत्याश्च, पुत्रा नैव मृतास्त्रियः ॥ इति वचनात् पुत्रप्रशंसामयुक्तामप्यन्यथानिर्वाहाऽदर्शनादिहेतुना चेत्कुर्यात्तदापि न प्रत्यक्षं, गुणवृद्ध्यभावाभिमानादिदोषापत्तेः । द्यूतादिव्यसनिनां निर्धनत्व-न्यत्कार-तर्जन-ताडनादिदुरवस्थाश्रवणे तेऽपि नैव व्यसने प्रवर्त्तन्ते । आयं व्ययं व्ययादुत्कलितं शेषं च पुत्रेभ्यः स्वयं शोधयति । एवं स्वस्य प्रभुत्वं पुत्राणां च स्वच्छन्दत्वमपास्तं भवति । दंसेइ नरिंदसभं, देसंतरभावपयडणं कुणइ। . इच्चाइ अवच्चगयं उचिअं पिउणो मुणेयव्वं ॥ . .. अपरिचितराजसभो हि दैवादतर्कितापतिते व्यसने कान्दिशीक एव स्यात्तथाविधश्च निष्कारणद्वेषिभिः परसम्पदसहिष्णुभिः खलजनैरुपहन्यते । तत्पठन्ति... गन्तव्यं राजकुले, द्रष्टव्या राजपूजिता लोकाः। . . यद्यपि न भवन्त्यास्तथाप्यनर्था विलीयन्ते ॥ देशान्तराचारव्यवहारानभिज्ञो हि प्रयोजनवशादेशान्तरगतस्तत्रत्यैवैदिशिक इति सुखं व्यसनादौ पात्यते । एवं पुत्रवत्पुत्र्यादेः, पितृवच्च मात्राऽपि, पुत्रस्नुषादेर्यथासम्भवमौचित्यं सत्याप्यम् । विशिष्य च सापत्नस्य । स हि प्रायो न्यूनमानी विमातृदत्तमासपेयावान्तिकृतपुत्रवत् । सयणाण समुचिअमिणं, जं ते निअगेहवुड्किज्जेसु। . सम्माणिज्ज सयावि हु, करिज्ज हाणीसु वि समीवे ॥ पितृमातृपत्नीपक्षोद्भवाः पुंसां स्वजनाः । वृद्धिकार्याणि पुत्रजन्मादीनि । सयमवि तेसिं वसणूसवेसु होअव्व मंतिअम्मि सया। खीणविहवाण रोगाउराण कायव्वमुद्धरणं ॥ वसणि त्ति -
SR No.002257
Book TitleShraddhvidhi Kaumudi
Original Sutra AuthorN/A
AuthorVairagyarativjay
PublisherPravachan Prakashan
Publication Year2006
Total Pages346
LanguageHindi, Sanskrit
ClassificationBook_Devnagari, Ritual, & Vidhi
File Size18 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy