________________
प्रथमः प्रकाशः
१४३ सङ्कोचितो ह्यसौ न कदाचिदङ्गोपचयमाकलयेत् । पठन्ति च
लालयेत् पञ्च वर्षाणि, दशवर्षाणि ताडयेत् । प्राप्ते षोडशमे वर्षे, पुत्रं मित्रमिवाचरेत् ॥ गुरुदेवधम्ममुहिसयणपरिचयं कारवेइ निच्चंपि ।
उत्तमलोएहिं समं, मित्तीभावं रयावेइ ॥ गुर्वादिपरिचये ह्याबाल्यात्सद्वासनावासित एव स्याद्वल्कलचीरिवत् । कुलजातिवृत्ताद्युत्तममैत्री जातु दैवान्नार्थं सम्पादयेत्तथाप्यनर्थपरिहाराय जायत एव । अभयकुमारमैत्री त्वार्द्रकुमारस्यानार्यदेशोपन्नस्यापि तद्भवसिद्ध्यै जज्ञे ।
गिण्हावेइ अपाणिं, समाणकुलजम्मरूवकन्नाणं ।
गिहभारम्मि निजइ, पहुत्तणं विअड़ कमेण ॥ 'समाण त्ति' अननुगुणयोगे हि दम्पत्योविम्डम्बनैव गृहवासः । मिथो विरक्तत्वे चानुचितप्रवृत्त्याद्यपि स्यात् । विवाहभेदाद्यग्रे वक्ष्यते । 'गिह त्ति' गृहभारनियुक्तश्च सुतो निरन्तरतच्चिन्ताक्रान्ततया स्वाच्छन्द्योन्मादादेरपदमेव स्यात् । बहुक्लेशाऽऽयासलंभ्यानि च धनानि जानन्नानुचिते व्यये धियं धत्ते। 'पहुत्तणं.त्ति' गृहे प्रभुत्वं च दत्ते । प्रतिष्ठा हि गुरुदत्तैव स्यात् । गृहभांरारोपणादि च लघावपि पुत्रे सुपरीक्ष्य योग्ये एव कार्यम् । तथैव निर्वाहशोभादिसम्भवात् । यथा प्रसेनजिन्नृपेण तत्तत्परीक्षापूर्वं शततमे पुत्रे श्रेणिके राज्यं न्यस्तम् । पुत्रवत् पुत्रीभ्रातृव्यादिष्वपि यथार्हमौचित्यं ज्ञेयम् एवं स्नुषाया अपि । यथा धनश्रेष्ठिना पञ्च पञ्च शालिकणार्पणेन परीक्ष्य तुर्या वधू रोहिणी गृहस्वामिनी चक्रे । वृद्धास्तूज्झिताभोगवतीरक्षिताः छगणाधुज्झन-रन्धन-कोशचिन्तासु नियुक्ता यथाक्रमम् ।
- पच्चक्खं न पसंसइ, वसणोवहयाण कहइ दुरवत्थं । .. आयं वयमवसेसं, च सोहए सयमिमेहिं तो ॥