________________
१४२
श्राद्धविधिकौमुदीसक्षेपः स्त्रीयोगे च विशिष्यैवं यतनीयमाजन्मनिबिडनिगडहडिकल्पयापि तयैव हि यथाकथञ्चिद् गृहसूत्रं स्थाप्यं । सर्वोऽपि निर्वाहश्च कर्त्तव्यो, गृहं हि गृहिणीं विदुरित्युक्तेः । ‘पयडइ त्ति' प्रकटिते हि धनहानिव्यतिकरे तुच्छतया सर्वत्र तद्वृत्तं व्यञ्जयन्ती चिराजितं महत्त्वं निर्गमयति । धनवृद्धिव्यतिकरे च व्यक्तीकृते निरर्गलं व्यये प्रवर्त्तते । गृहमन्त्रप्रचारे चाविष्कृते प्रकृतिकोमलहृदयतया मन्त्रोष्माणं धारयितुमसमर्थतया स्वविश्रम्भस्थानेषु प्रकाश्याऽऽयतिचिन्तितानि कार्याणि विफलयति । कदाचिद्राजद्विष्टमपि. सङ्घटयति । तत एव गृहे स्त्रियाः प्राधान्यं न कार्यम् । 'स्त्री पुंवच्च प्रभवति यदा तद्धि गेहं विनष्टम्' इत्याधुक्तेरपि ।
यस्य नास्ति स्वयं प्रज्ञा, मित्रोक्तं न करोति यः। . ....
स्त्रीवश्यः स क्षयं याति, यथा मन्थरकोलिकः ॥ इदं च प्रायिकं तेनोत्तमसुबुद्धिस्त्रियाः प्रश्ने विशेषगुणाद्येव । यथाऽनुपमदेव्या वस्तुपालतेज:पालयोः ।
सुकुलुग्गयाहिं परिणयवयाहिं निच्छम्मधम्मनिरयाहिं ।
सयणरमणीहिं पीइं, पाउणइ समाणधम्माहिं ॥, 'सुकुल त्ति' अकुलीनसंसर्गो हि कुलवनितानां मूलबीजमपवादपादस्य । ‘पाउणइ त्ति' प्रापयति ।
रोगाइसु नोविक्खइ, सुसहाओ होइ धम्मकज्जेसु ।
एमाइ पणइणिगयं, उचिअं पाएण पुरिसस्स ॥ धर्मकार्येषु तपश्चरणोद्यापन-दानदेवपूजा-तीर्थयात्रादिषूत्साहवर्द्धनधनार्पणादिना सुसहायी स्याद्, न त्वन्तरायकृत् । तत्पुण्येषु तस्याप्यंशहरत्वात् पुण्यकृत्यकारणस्यैव च परोपकारत्वात् ।
पुत्तं पइ पुण उचिअं, पिउणो लालेइ बालभावम्मि।
उम्मीलिअबुद्धिगुणं, कलासु कुसलं कुणइ कमसो ॥ . . 'लालेइ त्ति' वृष्याहारस्वेच्छाविहारविविधक्रीडनकादिभिः तदा