________________
प्रथमः प्रकाशः
___ १४१ पैशाचिकमाख्यानं, श्रुत्वा गोपायनं च कुलवध्वाः । . संयमयोगैरात्मा, निरन्तरं व्यापृतः कार्यः ॥ 'न विओअइ' त्ति यतो दर्शनसाराणि प्रायः प्रेमाणि । यथोक्तं... अवलोअणेण आलावएण गुणकित्तणेण दाणेण ।
छंदेण वट्टमाणस्स निब्भरं जायए पिम्मं ॥ • अइंसणेण अइदंसणेण दिटुं अणालवंतेण ।
माणेणऽपमाणेण य पंचविहं डिज्झए पिम्मं ॥ अत्यन्तप्रवासवैमनस्ये च सा कदाचिदनुचितमप्याचरेत् ।
अवमाणं न पयंसइ, खलिए सिक्खेइ कुविअमणुणेइ ।
धणहाणिवुड्डिघरमंतवइअरं पयडइ न तीसे ॥ अपमानं निर्हेतुकमेव क्रोधादिना सपत्नीसंयोजनादिकं नास्यै प्रदर्शयति । को हि मूढधीः पत्नीक्रोधादिमात्रेण स्त्रीद्वयसङ्कटे पतति ? | यतः
बुभुक्षितो गृहाद्याति, नाजोत्यम्बुच्छटामपि । अक्षालितपदः शेते, भार्याद्वयवशो नरः ॥
वरं कारागृहे क्षिप्तो, वरं देशान्तरभ्रमी। . : वरं नरकसञ्चारी, न द्विभार्यः पुनः पुमान् ॥
जातु पुष्टालम्बनेन पत्नीद्वयमपि स्यात्, तदा तयोस्तत्सुतादिष्वपि सर्वत्र समदृष्टित्वाद्येव कार्य, न तु वारकविलोपादि । स्त्रियाः सपत्नीकावारकं विलुप्य स्वपति भुञ्जानायास्तुर्यव्रतद्वितीयातिचारस्योक्तत्वात् । स्खलिते किञ्चिदपराधे निभृतं तथा शिक्षयति यथा न पुनस्तत्र प्रवर्त्तते । कुपितां चानुनयति, अन्यथा सहसाकारितया कूपपाताद्यमप्यनर्थं कुर्यात्, सोमभट्टभार्यावत् । अत एव स्त्रीषु सर्वकार्येषु सामवृत्तिरेव कार्या न तु क्वापि काठिन्यम् । पाञ्चालः स्त्रीषु मार्दवमित्युक्तत्वादपि । मार्दवसाध्या हि स्त्रियः, तथैव ताभ्यः सर्वत्र सर्वकार्यसिद्धिदर्शनाद्, अन्यथा तु तद्वैपरीत्यस्याऽप्यनुभवात् । निर्गुण