________________
प्रथमः प्रकाशः
१५५
न चांसीताऽऽसने भिन्ने भिन्न काश्यं च वर्जयेत् । न मुक्तकेशैभॊक्तव्यमनग्नः स्नानमाचरेत् ॥ स्वप्तव्यं नैव नग्नेन न चोच्छिष्टश्च संवसेत् । उच्छिष्टो न स्पृशेच्छीर्षं सर्वप्राणास्तदाश्रयाः ॥ केशग्रहान् प्रहारांश्च शिरस्येतानि वर्जयेत् । नान्यत्र पुत्रशिष्याभ्यां शिक्षार्थं ताडनं स्मृतम् ॥ न पाणिभ्यामुभाभ्यां तु कण्डूयेज्जातु वै शिरः । न चाभीक्ष्णं शिरःस्नानं कार्यं निष्कारणं नरैः ॥ न प्रशस्तं निशि स्नानं राहोरन्यत्र दर्शनात् । न भुक्तोत्तरकालं च न गम्भीरजलाशये ॥ दुष्कृतं न गुरोयात् क्रुद्धं चैनं प्रसादयेत् । परिवादं न शृणुयादन्येषामपि जल्पताम् ॥ गुरोः पतिव्रतानां च तथा धर्मतपस्विनाम् । परिवादं न कुर्वीत परिहासेऽपि भारत ! ॥ किञ्चित्परस्वं न हरेन्नाल्पमप्यप्रियं वदेत् । प्रियं च नानृतं ब्रूयान्नान्यदोषांनुदीरयेत् ॥ पतितैश्च कथां नेच्छेदासनं च विवर्जयेत् । पतितान्नं न रोचेत पतितैर्न सहाचरेत् ॥ . विद्विष्टपतितोन्मत्तबहुवैरिशठैः सह । बुधो मैत्री न कुर्वीत नैकः पन्थानमाश्रयेत् ॥ न दुष्टयानमारोहेत् कूलच्छायां न संश्रयेत् । नावगाहेज्जलौघस्य वेगमग्रेसरो नरः ॥ प्रदीप्तं वेश्म न विशेन्नारोहेच्छिखरं गिरेः । नासंवृतमुखो जृम्भेत् श्वासकासौ च वर्जयेत् ॥ नोर्ध्वं तिर्यग् न दूरं वा निरीक्षेत् पर्यटन् बुधः । युगमात्रं महीपृष्टं नरो गच्छेद्विलोकयन् ॥ नोच्चैर्हसेत्सशब्दं च न मुञ्चेत्पवनं बुधः ।
नखान्न रदनैश्छिन्द्यात्पादं पादेन नाक्रमेत् ॥ १. कांस्यं इति को० ह० प्र० पाठः ।