________________
१३८
श्राद्धविधिकौमुदीसक्षेपः आस्तन्यपानाज्जननी पशूनामादारलम्भावधि चाधमानाम् । आगेहकृत्यावधि मध्यमानामाजीवितात्तीर्थमिवोत्तमानाम् ॥ माता पशूनां सुतसत्तयैव, धनार्जनैस्तुष्यति मध्यमानाम् । वीरावदातैः पुनरुत्तमानां, लोकोत्तमानां चरितैः पवित्रैः ॥ उचिअं एअं तु सहोअरम्मि जं निअइ अप्पसममेअं।
जिटुं व कणिटुं पिहु, बहुमन्नइ सव्वकज्जेसु ॥ निअइ त्ति पश्यति । 'जिटुंव त्ति' तिष्ठेत् ज्येष्ठो भ्राता पितृतुल्यस्तमिव, कनिष्ठेन तु वैमातृकेनापि ज्येष्ठः श्रीरामो लक्ष्मणेनेवानुसरणीयः । एवं ज्येष्ठकनिष्ठपत्नीपुत्राद्यैरपि चिन्त्यम् । . . .
दंसइ न पुढोभावं, सब्भावं कहइ पुच्छइ अ तस्स। . . .
ववहारम्मि पयट्टइ, न निगूहइ थेबमवि दविणं ॥ ‘पयट्टइ त्ति' प्रवर्त्तयति, येनासौ व्यवहारनिष्णातो, न धूर्त्तादिवञ्चनागोचरी स्यात् । 'निगूहइ त्ति' द्रोहबुद्ध्या नापनुते क्वचित्सङ्कटे निर्वाहार्थं धनं निधीकरोति एव । कुसंसर्गादिना बन्धावविनीते किं कृत्यमित्याह
अविणीअं अणुवत्तइ, मित्तेहिं तो रहो उवालभइ।
सयणजणाओ सिक्खं, दावइ अन्नावएसेण ॥ . 'सयण त्ति' पितृव्य-मातुल-श्वशुर-तत्पुत्रादिभ्यो दुविनीतस्यान्यस्य व्यपदेशेन स्वयं तु तं न तर्जयति । तथा विहिते हि निर्लज्जतया स कदाचिदुन्मर्यादोऽपि स्यात् ।
हिअए ससिणेहो विहु, पयडइ कुविअं च तस्स अप्पाणं ।
पडिवन्नविणयमग्गं, आलवइ अ छम्मपिम्मपरो ॥ 'अछम्म त्ति' निश्छद्मप्रेमवान् । एवमप्यगृहीतविनयं तु प्रकृतिरियमस्येति ज्ञाततत्त्वः सन्नुदास्त एव ।