________________
प्रथमः प्रकाशः
तप्पंणइणिपुत्ताइसु, समदिट्ठी होइ दाणसम्माणे । सावक्कमि उड़त्तो, सविसेसं कुणइ सव्वंपि ॥
'समदिट्ठी त्ति' स्वपत्यपत्यादिष्विव समदृष्टिः । 'सावकंमि त्ति' सापत्नेऽपरमातृके भ्रातरि तत्र हि स्तोकेऽप्यन्तरे व्यक्तीकृते तस्य वैचित्त्यं जनापवादश्च स्यात् । एवं पितृमातृभ्रातृतुल्येष्वपि यथार्हमौचित्यं चिन्त्यम् ।
यतः
जनकश्चोपकर्ता च, यस्तु विद्यां प्रयच्छति । अन्नदः प्राणदश्चैव, पञ्चैते पितरः स्मृताः ॥ राज्ञः पत्नी गुरोः पत्नी, पत्नी माता तथैव च । स्वमाता चोपमाता च, पञ्चैता मातरः स्मृताः ।
सहोदरः सहाध्यायी, मित्रं वा रोगपालकः । मार्गे वाक्यसखा यस्तु, पञ्चैते भ्रातरः स्मृताः ॥
भ्रातृभिश्च मिथो, धर्मकार्यविषये स्मारणादि सम्यक् कार्यम् । यतः
भवगिहमज्झमि पमायजलणजलिअम्मि मोहनिद्दाए । उट्ठवइ जो सुअंतं, सो तस्स जणो परमबंधू ॥
१३९
भ्रातॄणां मिथः प्रीतौ श्रीऋषभपुत्रा भरतदूतागमे श्री ऋषभं प्रष्टुं सह प्राप्ता अष्टानवतिर्ज्ञातम् । भ्रातृवन्मित्रेऽप्येवमनुसर्त्तव्यम् ।
नसद्वाक्यात् परं वश्यं, न कलायाः परं धनम् । न हिंसायाः परोऽधर्मो, न सन्तोषात् परं सुखम् ॥
-
इय भाइगयं उचिअं, पणइणिविसयपि किंपि जंपेमो । सप्पणयंवयणसम्माणणेण तं अभिमुहं कुणइ ॥
प्रियप्रणयवचनं हि सञ्जीवनं समग्रापरापरप्रेमप्रकाराणां प्रस्तावे च
प्रयुक्तं दानादिभ्योऽपि गुरुतरं गौरवमारोपयति । यतः पठ्यते
सुस्सूसाइ पयट्टइ, वत्थाभरणाइ समुचिअं देइ । नाडयपिच्छणयाइसु जणसम्मद्देसु वारेइ ॥