________________
प्रथमः प्रकाशः
१३७
सम्प्रातः, यंदैव प्रातः संवृत्तं तदैवेत्यर्थः, अनेन कार्यान्तराव्यग्रतां दर्शयति। गन्धट्टएण त्ति गन्धाट्टकेन गन्धद्रव्यक्षोदेन । 'तिहिं ति' गन्धोदकोष्मोदकशीतोदकैः । 'थालीपाग त्ति' स्थाली पिठरी तस्यां पक्कं सुपक्कं स्यात् । 'सुद्ध त्ति' शुद्धं भक्तदोषमुक्तम् । 'पिट्ठवडंसिआए त्ति' पृष्ठावतंसिकया पृष्ठारोपितमित्यर्थः । अत्र निजान्धपित्रोः कावडया पृष्ठवाही तीर्थयात्रार्थोपस्थितः श्रवणो ज्ञातम् । 'अहे त्ति' अथ णं वाक्यालङ्कारे। 'आघवइत्त त्ति' आख्याय । ‘पन्नवइत्ता' प्रज्ञाप्य बोधयित्वेत्यर्थः । 'परूवइत्ता' 'प्ररूप्य भेदतः । अत्र पितृदीक्षादातृश्रीआर्यरक्षितसूरिख़तम् । केवलोत्पादेऽपि पित्रोः प्रबोधावधि निरवद्यवृत्त्या गृहे स्थितः कूर्मापुत्रो वा ॥१॥ ___ 'महच्चेति' माहत्यं महत्त्वं तद्योगान्माहत्य ईश्वर इत्यर्थः । 'समुक्कसिज्ज त्ति' धनदानादिना समुत्कर्षयेदुत्कृष्टं कुर्यात् । 'पुरन्ति' पूर्वकाले समुत्कर्षणकाले इत्यर्थः । 'समिइ त्ति' भोगसमुदयसमन्वायुक्तः। 'दलमाणे त्ति' ददानः । इह मिथ्यात्वि-महेभ्यस्य वणिक्षुत्रत्वेन महेभ्यीभूतः क्रमात्तं श्रेष्ठिनं दुर्दैवाद् निर्धनं महेभ्यीकृत्य श्राद्धधर्मं प्रतिपादयिता जिनदासश्राद्धो ज्ञातम् २। 'निसम्म त्ति' निशम्य मनसाश्वधार्य । इह निद्रादिप्रमत्तसेलकाचार्यबोधकः पन्थकशिष्यो ज्ञातम्
. मातृविषयौचित्यविशेषमाह
नवरं से सविसेसं, पयडइ भवाणुवित्तिमप्पडिमं ।
इत्थीसहावसुलहं, पराभवं वहइ नहु जेण ॥ सविसेसंति जनकान्मातुः पूज्यत्वादपि । यन्मनु:... उपाध्याया दशाऽऽचार्य, आचार्याणां शतं पिता ।
सहस्रं तु पितुर्माता, गौरवेणातिरिच्यते ॥ अन्यैरप्युक्तं